हर्षसंघवी गुजरातस्य भूपेन्द्रसर्वकारे कनिष्ठतमः उपमुख्यमन्त्री भवति, २५ मन्त्रिषु १९ नवीनमुखाः समाविष्टाः
क्रिकेट्-क्रीडकस्य रविन्द्रजाडेजा इत्यस्य पत्नी रिवाबा जाडेजा च मन्त्रिपदं लब्धवती। गांधीनगरम्, 17 अक्टूबरमासः (हि.स.)। गुजरातराज्ये शुक्रवारादिने भूपेन्द्रसर्वकारस्य नूतनमन्त्रिमण्डले, षड् पुरातनाः तथा १९ नव विधायकाः युक्ताः आहत्य २५ विधायकाः मन्
નવા મંત્રીમંડળની શપથવિધિ સંપન્ન


નવા મંત્રીમંડળની શપથવિધિ સંપન્ન


क्रिकेट्-क्रीडकस्य रविन्द्रजाडेजा इत्यस्य पत्नी रिवाबा जाडेजा च मन्त्रिपदं लब्धवती।

गांधीनगरम्, 17 अक्टूबरमासः (हि.स.)। गुजरातराज्ये शुक्रवारादिने भूपेन्द्रसर्वकारस्य नूतनमन्त्रिमण्डले, षड् पुरातनाः तथा १९ नव विधायकाः युक्ताः आहत्य २५ विधायकाः मन्त्रिपदे नियुक्ताः। हर्षः संघवी प्रोन्नतं प्राप्य उपमुख्यमन्त्री अभूत्। क्रिकेट्क्रीडकः रविन्द्रजाडेजा इत्यस्य पत्नी रिवाबा जाडेजा अपि मन्त्रिपदे निक्युक्ता। एतेषां २५ मन्त्रिणां मध्ये १९ नूतनाः सम्मिलिताः।

गांधीनगरस्थित महात्मामन्दिरे अद्य शपथग्रहणसमारोहे राज्यपालः आचार्यः देवव्रतः सर्वे २५ विधायकाः मन्त्रिपदस्य शपथं प्रदत्तवन्तः। हर्षः संघवी प्रथमः उपमुख्यमन्त्रीरूपेण शपथं ग्रहणं कृतवान्। ततः जीतुः वाघाणी, नरेशः पटेल, अर्जुनः मोढवाडिया, प्रद्युम्नः वाजा, रमनः सोलंकी च कैबिनेट्-मन्त्रीरूपेण शपथं स्वीकृतवन्तः। ईश्वरसिंहः पटेल, प्रफुल्लः पानसेरिया, डॉ. मनीषा वकील च राज्यमन्त्री (स्वतन्त्रप्रभार)रूपेण शपथं स्वीकृतवन्तः।

कान्तिः अमृतिया, रमेशः कटारा, दर्शनाबेन वाघेला, कौशिकः वकेरिया, प्रवीणः माली, जयरामः गामित्, त्रिकम् छागा, संजयः महीडा, कमलेशः पटेल, पी.सी. बरंडा, स्वरूपजी ठाकोर, रिवाबा जाडेजा च राज्यमन्त्रीरूपेण शपथंस्वीकृतवन्तः। नूतनाः मन्त्रिणः हस्ते भगवद्गीताम् धृत्वा शपथं स्वीकृतवन्तः।

पुरुषोत्तमः सोलंकी, ऋषिकेशः पटेल, कनु देसाई, कुवरजी बावलिया च शपथं न स्वीकृतवन्तः, यतः तेषां मंत्रालये परिवर्तनं न जातम्। एतादृशं चतुरः तथा हर्षः संघवी, प्रफुल्लः पानसेरिया च सह, आहत्य षड् मन्त्रिणः पुरातनमन्त्रिमण्डलात् सम्मिलिताः।

नूतनमन्त्रिमण्डले मुख्यमन्त्री भूपेन्द्रः पटेल सहित कुलं २६ मन्त्रिणः सम्मिलिताः। नूतनमन्त्रिमण्डले मुख्यमन्त्री सहित ७ पाटीदार, ८ ओबीसी, ३ एससी, ४ एसटी वर्गाः मन्त्रिणः, यत्र ३ स्त्रियः सम्मिलिताः।

नूतनमन्त्रिमण्डलस्य सूचीमध्ये सर्वाधिकं परिवर्तनम् — दशकादधिक पुरातनानि मन्त्रिणः बहिर्गतम्। आगामी चुनावनियोजनं तथा संगठनात्मकयोजनायाः अनुसारं वरिष्ठनेतॄन् स्थानं न लब्धवन्तः। एतेषां मध्ये बलवंतसिंहः राजपूत, राघवजीः पटेल, बचुभाई खाबड, मूलु बेरा, कुबेरः डिंडोर, मुकेशः पटेल, भीखुसिंहः परमार, कुवरजी हळपती, जगदीशः विश्वकर्मा, भानुबेनः बाबरिया च सम्मिलिताः। यद्यपि जगदीशः विश्वकर्मा प्रदेशाध्यक्ष पदे पूर्वमेव नियुक्तः।

हिन्दुस्थान समाचार / Dheeraj Maithani