Enter your Email Address to subscribe to our newsletters
जयपुरम्, 17 अक्टुबरमासः (हि.स.)। राजस्थानलोकसेवायोगेन गुरुवासरे विभिन्नपदानां नियुक्तये साक्षात्कारकार्यक्रमः प्रकाशितः। तस्यानुसारम् नवम्बरमासे सहायकाचार्यः-2023 (महाविद्यालयशिक्षाविभागे), शारीरिकप्रशिक्षण-अनुदेशकः-2024 (संस्कृतशिक्षाविभागे) तथा सहायकाचार्यः (चिकित्साशिक्षाविभागे) एतेषां पदानां कृते साक्षात्काराः आयोज्यन्ते।
महाविद्यालयशिक्षा तथा संस्कृतशिक्षाविभागयोः साक्षात्काराः
महाविद्यालयशिक्षाविभागस्य विभिन्नविषयानां तथा संस्कृतशिक्षाविभागे शारीरिकप्रशिक्षण-अनुदेशकपदानां कृते निम्ननिर्धारिततिथिषु साक्षात्काराः भविष्यन्ति —
राजस्थानी विषयस्य 06.11.2025 तथा 07.11.2025, प्राणिनीयशास्त्रस्य (अन्त्यचरणः) 06.11.2025 तः 13.11.2025 पर्यन्तम्, भूगोलस्य (द्वितीयचरणः) 06.11.2025 तः 13.11.2025 पर्यन्तम्, समाजशास्त्रस्य (अन्त्यचरणः) 10.11.2025 तः 13.11.2025 पर्यन्तम्, गार्मेण्ट् प्रोडक्शन् एण्ड् एक्स्पोर्ट् मॅनेजमेण्ट् इति विषयस्य 14.11.2025, जैनोलॉजी इति विषयस्य 14.11.2025 च। शारीरिकप्रशिक्षणअनुदेशकपदानां साक्षात्कारः अपि 14.11.2025 तिथौ एव भविष्यति।
एतेषु साक्षात्कारेषु सम्मिलितुं इच्छुकः ये अभ्यर्थिनः पूर्वं विस्तृतम् आवेदनपत्रम् आयोगाय न समर्पितवन्तः, ते आयोगस्य वेबसाइट्त इत्यत्र आवेदनपत्रम् अवरोह्य तत् पूरयित्वा साक्षात्कारसमये द्वौ प्रतिलिपी मय समस्तप्रमाणपत्राणां छायाप्रतिभिः सहितं आवश्यकतया प्रस्तुतव्यम् इति।
चिकित्साशिक्षाविभागः
सहायकाचार्यः (चिकित्साशिक्षाविभाग) प्रवेशः-2021 अन्तर्गतं कार्डियो-वेस्क्यूलर् एण्ड् थोरेसिक् सर्जरी (सुपर् स्पेशियलिटी), गेस्ट्रोएण्टरोलॉजी (सुपर् स्पेशियलिटी) तथा पिडियाट्रिक् कार्डियोलॉजी (सुपर् स्पेशियलिटी) इत्येतेषां पदानां कृते साक्षात्कारः 14 नवम्बरमासः 2025 तिथौ आयोज्यते।
साक्षात्कारसमये सर्वे अभ्यर्थिनः स्वस्य नवीनतमं पासपोर्ट्-आकारं वर्णचित्रं, नवीनतमं स्पष्टं परिचयपत्रं मूलप्रमाणपत्रैः सह छायाप्रतिभिः सहितं उपस्थिताः भवितुम् अपेक्ष्यन्ते, अन्यथा साक्षात्कारात् वञ्चिताः भविष्यन्ति। अभ्यर्थिनां साक्षात्कारपत्राणि आयोगस्य वेबसाइट् इत्यत्र यथासमये प्रकाशिताः भविष्यन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता