Enter your Email Address to subscribe to our newsletters
– एल्.सी.ए. मार्क–१ए इत्यस्य तृतीया उत्पादनरेखा तथा एच्.टी.टी.–४० इत्यस्य द्वितीया उत्पादनरेखा उद्घाटिता।
नवदेहली, १७ अक्टूबरमासः (हि.स.)।भारतेन विमाननक्षेत्रे रक्षास्वावलम्बनस्य क्षेत्रे च अद्य शुक्रवासरे एकं मीलशिलाखण्डम् अतिक्रान्तम्। दीर्घकालं प्रतीक्षितस्य लाइट् कॉम्बैट् एअरक्राफ्ट् (एल्.सी.ए.) मार्क–१ए नामकस्य स्वदेशनिर्मितस्य विमानस्य नासिकनगरस्थिते महाराष्ट्रे प्रथमम् उड्डयनम् सम्पन्नम्।
रक्षामन्त्री राजनाथः सिंहः उपस्थितः सन् स्वदेशीयं विमानम् “वाटर सैल्यूट” दत्वा भारतस्य वर्धमानस्य सामर्थ्यस्य प्रदर्शनं कृतवान्। ततः परं रक्षामन्त्रिणा हिन्दुस्थान एअरनॉटिक्स् लिमिटेड् (एच्.ए.एल्) इत्यस्य नासिकएकके एल्.सी.ए. मार्क–१ए इत्यस्य तृतीया उत्पादनरेखा, एच्.टी.टी.–४० इत्यस्य द्वितीया उत्पादनरेखा च उद्घाटिता। एतयोः उद्घाटनेन एतेषां विमानानां उत्पादनवेगः शीघ्रतरः भविष्यति।
रक्षामन्त्रिणा अस्मिन्नेव अवसरे उक्तम्— “एच्.ए.एल् नासिकएकके एल्.सी.ए. तेजस्, एच्.टी.टी.–४० च विमानयोः उत्पादनं क्रियते। उभयोः विमानयोः निर्माणं शीघ्रतया सिध्येत् इति हेतोः अद्य एल्.सी.ए. तेजस् निर्माणार्थं तृतीया उत्पादनरेखा, एच्.टी.टी.–४० विमानस्य निर्माणार्थं द्वितीया उत्पादनरेखा च उद्घाट्यते।”
तेन उक्तम् — “नासिकं नाम भूमिः ऐतिहासिकत्वेन प्रसिद्धा, यत्र भगवान् शिवः त्र्यम्बकरूपेण वसति। नासिकं श्रद्धायाः, भक्तेः, आत्मनिर्भरतायाः, सामर्थ्यस्य च प्रतीकं जातम्। अत्र एच्.ए.एल् संस्थानं राष्ट्रस्य रक्षाशक्तेः प्रतिनिधित्वं करोति। अद्य अहं यदा सुखोई–३०, एल्.सी.ए. तेजस्, एच्.टी.टी.–४० इत्येतानि विमानानि एकत्र उड्डयन्ति अपश्यं, तदा मम उरः गर्वेण विस्तीर्णं जातम्।”
रक्षामन्त्रालयेन २५ सितम्बरदिने नूतनदेहलीस्थाने ९७ एल्.सी.ए. एम्.के.–१ए विमानानां सम्बन्धिनाम् उपकरणानां च कृते एच्.ए.एल् इत्यनेन सह ६२,३७० कोटिरूप्यकाणां मूल्ये एकः अनुबन्धः हस्ताक्षरितः। पूर्वं ८३ तेजस् मार्क–१ए विमानानां व्यापारः ३ फरवरी २०२१ तमे दिनाङ्के बेंगलुरौ एयरो इंडिया इत्यस्मिन् अवसर एव कृतः आसीत्। एतेन सर्वे मिलित्वा १८० विमानानां निर्माणं भविष्यति।
एच्.ए.एल् इत्यनेन ८३ विमानानां प्रथमे आदेशे प्रति वर्षं षोडश विमानानि निर्मातुं लक्ष्यं निश्चितम्, किन्तु ९७ विमानानां पुनः आदेशे लब्धे प्रति वर्षं द्वात्रिंशद् विमानानां निर्माणस्य योजना कृताः। अतः अद्य रक्षामन्त्रिणा एल्.सी.ए. तेजस् निर्माणार्थं तृतीया उत्पादनरेखा उद्घाटिता।
एच्.ए.एल् अनुसारं, एल्.सी.ए. तेजस् मार्क–१ए नामकस्य युद्धविमानस्य एवियोनिक्स्, आयुधसज्जा, रखरखाव इत्यादिषु त्रिचत्वारिंशत् (४३) नूतनपरिवर्तनानि कृतानि सन्ति। इदानीं तस्मिन् अत्याधुनिकम् ए.ई.एस्.ए. तरङ्गान्वेषकं स्थाप्यते, यत् तेजस् मार्क–१ इत्यस्य इजरायली ई.एल्./एम्.–२०३२ तरङ्गान्वेषकात् श्रेष्ठं भविष्यति।
प्रथमे समूहविमानेषु इजरायली ई.एल्./एम्.–२०५२ तरङ्गान्वेषकः स्थापितः भविष्यति, यावत् अनन्तरविमानेषु स्वदेशनिर्मितः “उत्तम” तरङ्गान्वेषकः स्थाप्यते। तेजस् मार्क–१ए मध्ये इजरायली ई.एल्.एल्.–८२२२ नामकः जैमरपोड् अपि भविष्यति, यः बी.वी.आर् अथवा एस्.ए.एम् नामकयोः क्षेपणास्त्रयोः तरङ्गान्वेषकसंकेतान् विघ्नयति।
अधुनिकवायुधेनुयुद्धस्य दृष्ट्या एषः परिष्कारः अत्यन्तं महत्वपूर्णः। तेजस् मार्क–१ए इत्यस्मिन् न केवलं समीपयुद्धाय, अपितु बी.वी.आर् च दीर्घपरिध्या च युद्धाय योग्याः क्षेपणास्त्राणि सन्ति। अस्मिन् आकाशात् भूमौ प्रहाराय ५०० किलोग्रामभारयुक्तं ‘एल्.जी.बी.’ नामकं मार्गदर्शितविस्फोटकं तथा अमार्गदर्शितानि विस्फोटकानि अपि स्थाप्यन्ते।
हिन्दुस्थान समाचार / अंशु गुप्ता