Enter your Email Address to subscribe to our newsletters
श्रीनगरम्, 17 अक्टूबरमासः (हि.स.)। जम्मू-कश्मीरस्य उपराज्यपालः मनोजसिन्हा शुक्रवासरे रूस् देशस्य कल्मीकीयक्षेत्रं प्रति प्रस्थानं कृतवान्। सः एकसप्ताहपर्यन्तं चलितायाः प्रदर्शनीं अनन्तरं *भगवतः बुद्धस्य पवित्र-अवशेषानां पुनरागमनाय प्रतिनिधिमण्डलस्य नेतृत्वं करिष्यति।
उपराज्यपालः स्वस्मिन् संदेशे उक्तवान् – रूस् देशस्य कल्मीकीयं प्रति प्रस्थानं करोमि। अत्र एकसप्ताहपर्यन्तं प्रदर्शनीं सम्पूर्णतया सम्पन्नं कृत्वा *भगवान् बुद्धस्य पवित्र-अवशेषानां पुनरागमनाय प्रतिनिधिमण्डलस्य नेतृत्वं करिष्यामि। अस्मिन पवित्रे अवसरणे माननीय प्रधानमंत्री श्री नरेन्द्रमोदीमहोदयस्य हृदयंगतम् धन्यवादं ददामि। ओम् नमो बुद्धाय।
अस्याः प्रदर्शनीं संस्कृतिमंत्रालयेन, अन्ताराष्ट्रियबौद्धपरिसंघेन, राष्ट्रीयसंग्रहालयेन, च इन्दिरागांधीराष्ट्रीयकलाकेन्द्रेण सह आयोजितम्। पवित्र-अवशेषाः एलीस्टा नगरे मुख्यबौद्धमठे गेडेन शेडुप चोइकोरलिङ्ग मठे स्थाप्यन्ते, यः शाक्यमुनि बुद्धस्य स्वर्ण निवास इत्यनेन ख्यातः अस्ति।
-----
हिन्दुस्थान समाचार / अंशु गुप्ता