मध्यप्रदेशस्य आदि-कर्मयोगी अभियानस्य क्रियान्वयने उत्कृष्टं प्रदर्शनं कृतवन्तः ,अद्य राष्ट्रपतिः तान् सम्मानयिष्यति
भोपालम्, 17 अक्टूबरमासः (हि.स.)। मध्यप्रदेशे आदि-कर्मयोगी अभियानस्य क्रियान्वयने राष्ट्रे उत्कृष्टं प्रदर्शनं कृत्वा, प्रथमपञ्चराज्यानां मध्ये स्थानं प्राप्तम्। राष्ट्रपतिः द्रौपदीमुर्मु अद्य शुक्रवासरे नवदेहाल्याम् आयोजिते आदि-कर्मयोगी अभियानस्य र
राष्ट्रपति द्रोपदी मुर्मू (फाइल फोटो)


भोपालम्, 17 अक्टूबरमासः (हि.स.)। मध्यप्रदेशे आदि-कर्मयोगी अभियानस्य क्रियान्वयने राष्ट्रे उत्कृष्टं प्रदर्शनं कृत्वा, प्रथमपञ्चराज्यानां मध्ये स्थानं प्राप्तम्। राष्ट्रपतिः द्रौपदीमुर्मु अद्य शुक्रवासरे नवदेहाल्याम् आयोजिते आदि-कर्मयोगी अभियानस्य राष्ट्रियकॉन्क्लेव मध्ये मध्यप्रदेशं सम्मानयिष्यन्ति। जनजाति कार्यस्य प्रमुख सचिवः गुलशन बामरा राज्यस्तरीय पुरस्कारं ग्रहिष्यति। सः च मुख्यमन्त्री डॉ. मोहनयादवस्य नेतृत्वे जनजातीयसमुदायस्य सामाजिकं आर्थिकं च उत्थानाय क्रियमानानि प्रयत्नानि विषये प्रस्तुतिम् दास्यति।

जनसम्पर्क-अधिकारी अवनीशसोमकुंवरः सूचितवान् यत् पीएम जनमनयोजनायाम् शिवपुरी उत्कृष्टप्रदर्शनाय सम्मानितः भविष्यति। आदि-कर्मयोगी अभियानस्य राष्ट्रस्तरीय उत्कृष्ट जनपदेषु मध्यप्रदेशस्य बैतूलजनपदः सम्मानितः भविष्यति। प्रदेशस्य उत्कृष्टं मास्टर ट्रेनर श्रेण्यां सहायकशोध अधिकारी सारिकाधौलपुरिया सम्मानिता भविष्यति। अन्येषु उत्कृष्टप्रदर्शनकृतेषु जिलेषु बैतूल, धार, पूर्वी निमाड़, च लबड़वानी जपदानां विशेषः उल्लेखः भविष्यति। संबंधितजिलानां जनपदाधिकारिणः विशेषतया उपस्थिताः भविष्यन्ति।

अधिकारी सूचितवान् यत् राज्यस्तरीय सुपर कोच् इति तथा मास्टर ट्रेनर इत्येतरं प्रदेशस्य आदिवासी विकास उपायुक्तः जेपीयादवः सम्मानितः भविष्यति। एकीकृत जनजातीयविकाससंस्थायाः बड़वानी, बैतूल, शिवपुरी च उल्लेखनीयक्रियाकलापानां कारणेन सम्मानिताः भविष्यन्ति। धरती आबा जनभागीदारी अभियाने गुना, बुरहानपुरम् च विदिशा उत्कृष्टप्रदर्शनाय सम्मानिताः भविष्यन्ति। एकीकृत आदिवासी विकाससंस्था गुना तथा विदिशा उत्कृष्टतमं प्रदर्शनं कृत्वा सम्मानिताः भविष्यन्ति।

सः अपि सूचितवान् यत् आदि-कर्मयोगी अभियानस्य अन्तर्गत 14,000 ग्रामाणां विलेज एक्शन प्लान निर्मिताः सन्ति। ग्रामसभया तेषां अनुमोदनं कृतम्। एतेषु ग्रामेषु 13,000 अधिकाः आदि सेवा केन्द्राणि स्थापिता। आधारपत्रम्, आयुष्मान पत्रम्, पीएम किसान, जनधन, जातिप्रमाणपत्रम्, किसानक्रेडिटपत्रम्, राशनपत्रम् इत्यादयः आवश्यकीय प्रपत्राणि प्रदत्तानि सन्ति।

पीएम जनमनयोजनान्तर्गतम् हितग्राही-आधारित योजनानां क्रियान्वयने मध्यप्रदेशे उत्कृष्टं कार्यं सम्पन्नम्। आधारपत्रं, जनधन-अधिकोषः, आयुष्मान कार्ड, जाति प्रमाणपत्र, किसान क्रेडिट कार्ड, पीएम किसान सम्मान निधि, खाद्याणपत्र - इत्यादीनां प्रपत्राणाम् उपलब्धिकरणे शतप्रतिशतं सिद्धिः लब्धा। आयुष्मानपत्रनिर्गमनाय शिवपुरी, मैहर, रायसेन, कटनी, भिंड च उत्कृष्टं प्रदर्शनं कृतवन्ति। लंबित जाति प्रमाणपत्रनिर्गमनाय जबलपुरम्, रायसेनम्, सिवनी च उत्कृष्टं कार्यं कृतवन्ति। अधोसंरचनात्मक क्रियाः यथा छात्रावासनिर्माणम्, मार्गम्, आंगनबाड़ी भवननिर्माणम्, मल्टीपरपज सेंटरनिर्माणम् शीघ्रतया प्रचलन्ति।

राज्ये 12 राज्यस्तरीय कुशलप्रशिक्षकाः, 287 जनपदस्तरीयकुशलप्रशिक्षकाः, च विकासखण्ड-स्तरे 12,000 कुशलप्रशिक्षकाः प्रशिक्षिताः। संकुल-स्तरे अपि 18,150 कुशलप्रशिक्षकाः प्रशिक्षिताः। जनजाति कार्येषु सहयोगाय 1,41,000 अधिकाः आदि-सहयोगिनः तैयाराः, येषु सामान्यजनाः, युवा, सामाजिक कार्यकर्तारः च सम्मिलिताः। अतिरिक्तं 1,92,000 आदि-सहकारी अपि सहयोगं कुर्वन्ति, येषु जनजातिसमाजस्य नेतृत्वकर्ता समुदायः सम्मिलितः।

ध्यातव्यम् यत् भारतस्य जनजातिकार्यमंत्रालयद्वारा आदि-कर्मयोगी अभियानः जनजातीयसमुदायस्य सामाजिक-आर्थिकविकासं शीघ्रम् आरब्धः। अस्य उद्देश्यं ग्रामस्तरे नेतृत्वक्षमतायाः विकासः, योजनानां प्रभावी कार्यान्वयनस्य सुनिश्चितिः, शासनस्य अधिकम् उत्तरदायित्वपूर्णं करणीयम्। अयं अभियानसेवा, संकल्पः, समर्पणम् इत्यादीनि मूल्यानि आधारयति, यत् जनजातीयसमाजम् आत्मनिर्भरं, जागरूकं, सशक्तं च कर्तुं महत्वपूर्णं पथं प्रददाति।

हिन्दुस्थान समाचार / अंशु गुप्ता