Enter your Email Address to subscribe to our newsletters
पटना, 17 अक्टूबरमासः (हि.स.)।बिहारराज्ये दरभंगाजिलायाः अलीनगर-विधानसभाक्षेत्रात् प्रसिद्धा लोकगायिका मैथिलीठाकुर तथा जाले-विधानसभाक्षेत्रात् विधायकः जीवेशमिश्रः इत्युभौ अपि भारतीयजनतापक्षस्य (भा.ज.पा.) प्रत्याशिनौ भूत्वा शुक्रवारदिने स्वस्व-नामांकनपत्राणि प्रस्तुतवन्तौ।नामांकनात् पूर्वं मैथिलीठाकुर नवादाग्रामे स्थिते दुर्गामन्दिरे पूजाऽर्चनां कृत्वा ततः नामांकनं कृतवती। नामांकनानन्तरं सा जनसभां संबोधितवती। स्वसंबोधने सा उक्तवती— अलीनगरं आदर्शनगररूपेण विकसितव्यं इति, तथा सभायां उपस्थितान् जनान् प्रति स्वपक्षे मतदानाय आवाहनं कृतवती। तस्मिन् नामांकन-सभायाम् भारतीयजनतापक्षस्य अनेके वरिष्ठनेतारः कार्यकर्तारश्च उपस्थिताः आसन्।अन्यस्मिन् पक्षे, जाले-विधानसभाक्षेत्रात् भा.ज.पा.-प्रत्याशी जीवेशमिश्रः अपि नामांकनं कृतवान्। सः स्वगृहात् द्विकिलोमीटरपर्यन्तं सायकलेन यानं कृत्वा डी.डी.सी. कार्यालयं प्राप्य तत्र स्वस्य नामांकनपत्रं प्रस्तुतवान्। तस्मिन् समये शताधिकाः समर्थकाः तस्य अग्रे पश्चात् च पदयात्रां कुर्वन्तः सहगच्छन्ति स्म।नामांकनानन्तरं पत्रकारैः सह संवादे जीवेशमिश्रः अवदत्— अहं सामान्यः जनः अस्मि, अत एव सायकलेन आरूढः सन् नामांकनार्थं आगतः। तेन महागठबन्धनम् उद्दिश्य आलोचनां कृतवती— यस्मिन् गठबन्धने न नीतिः, न नियमः, न च परस्परे विश्वासः, तादृशं महागठबन्धनं कथं चुनावे सफलं भविष्यति, इति स्वयमेव अनुमातुं शक्यते।
---------------
हिन्दुस्थान समाचार