Enter your Email Address to subscribe to our newsletters
नवदेहली, 17 अक्टूबरमासः (हि.स.)। केंद्रीयकृषिः तथा किसानकल्याण एवं ग्रामीणविकासमंत्री श्री शिवराजसिंहचौहानः ‘दलहन-आत्मनिर्भरता मिशन’ तथा ‘प्रधानमंत्री धनधान्यकृषियोजना’ सम्बन्धिनि उच्चस्तरीयसभां मंत्रालयस्य वरिष्ठ अधिकारिभिः सह अकरोत् । अस्मिन् अवसरे, योजनासु समयबद्धक्रियान्वयनार्थम् श्री शिवराजसिंहः स्पष्टनिर्देशान् दत्तवान्।
प्रधानमंत्री धनधान्यकृषि योजनायाः त्वरितक्रियान्वयनार्थम्, श्री शिवराजसिंहः एकादशमंत्रालयानां मंत्रिभिः सह एकां अत्यावश्यकीम् गोष्ठीम् आयोजयितुं निर्देशितवन्तः।
कृषिमंत्रालयस्य शुक्रवासरे प्रकाशितविज्ञप्त्या अनुसारं, गोष्ठ्याम् उक्तं यत् योजनासु कार्यान्वयनार्थम् जनपदानुसारं समूहदलनिर्माणं कृत्वा दलहन आत्मनिर्भरता मिशने कार्यं प्रवर्तितुं योजितम्। राज्यैः क्लस्टरनिर्माणाय सहयोगं प्रार्थितम्। तत् अपि, प्रधानमंत्रीधन–धान्य कृषियोजना भूस्तरे प्रभावशालीरूपेण क्रियान्वितुं अधिकारिणः निर्देशिताः।
शिवराजसिंहः उक्तवान् यत् दलहन आत्मनिर्भरता मिशन तथा प्रधानमंत्री धनधान्यकृषि योजना यदि शीघ्र भुस्तरे क्रियान्विता स्युस्ते, कृषकाणां हिताय महत्वपूर्णं लाभं स्यात्। एषा योजना देशस्य 100 आकांक्षी जनपदेषु कृषि उत्थानाय 11 मंत्रालयानां 36 उपयोजनानां समन्वयेन* प्रधानमंत्री श्री नरेन्द्र मोदी द्वारा आरब्धा।
अतः श्री शिवराजसिंह अधिकारिभ्यः निर्देशितवान् यत् 11 मंत्रालयानां मंत्रिभिः, सचिवैः तथा नीति आयोगस्य अधिकारिभिः सह सभाम् आयोजयितुं, येन प्रधानमंत्री धनधान्यकृषियोजना राष्ट्रस्य कृषकजनाय अधिकतमं लाभप्रदं स्यात्।
अधिकारिणां प्रति विशेषनिर्देशः अपि दत्तः यत् दलहन आत्मनिर्भरता मिशन समयबद्ध क्रियान्वयनार्थ, राज्यैः संबंधित नोडल अधिकारिभिः सह सभा आयोजयितुम्।
स्मरणीयं यत्, 11 अक्टूबर 2025 तमे पूसा, दिल्ली मध्ये आयोजित कार्यक्रमे प्रधानमंत्री मोदी प्रधानमंत्री धन–धान्य कृषियोजना तथा दलहन आत्मनिर्भरतामिशन आरब्धवान् । पूर्वमेव 16 जुलाई 2025 तमे केन्द्रीयमन्त्रिमण्डले धन–धान्य कृषियोजनायै अनुमोदनं दत्तवान्।
वित्तवर्षे 2025–26 आरभ्य, एषा योजनाः षड्वर्षपर्यन्तं सञ्चालिताः स्युः। वार्षिकं परिव्ययः ₹24,000 कोटिः। ‘दलहन आत्मनिर्भरता मिशन’ षड्वर्षे 11,440 कोटिरूप्यकाणि निवेश्य कार्यान्वितम्। मिशनस्य लक्ष्याणि –
दलहनक्षेत्रफलम् 275 लक्षहेक्टेयरात् 310 लक्षहेक्टेयरपर्यन्तं विस्तारयितुम्।
उत्पादनम् 242 लक्षटनात् 350 लक्षटनपर्यन्तं वृद्धयितुम्।
उत्पादकता 1130 किलोग्राम/हेक्टेयरपर्यन्तं वृद्धिं प्रापयितुं।
उत्पादकता वृद्धिं सह मिशनं व्यापकं रोजगारसृजनम् अपि करिष्यति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता