उद्यमी मुकेश अंबानी काश्याः अन्नपूर्णा मात्रे  प्रेषिता श्रृंगारसामग्री
वाराणसी, 17 अक्टूबरमासः (हि. स.)।देशस्य प्रसिद्धौ उद्योजकौ श्रीमुकेश-अम्बानी श्रीमती-नीता-अम्बानी च काश्यां स्थितस्य श्रीअन्नपूर्णामन्दिरस्य अन्नपूर्णेश्वरीदेव्यै स्वर्णमयीं श्रृङ्गारसामग्रीं सह अभिनन्दनपत्रं च पूजार्थं प्रेषितवन्तौ। शुक्रवासरे अत
मुकेश अंबानी की भेजी हुई ग्रीटिंग


वाराणसी, 17 अक्टूबरमासः (हि. स.)।देशस्य प्रसिद्धौ उद्योजकौ श्रीमुकेश-अम्बानी श्रीमती-नीता-अम्बानी च काश्यां स्थितस्य श्रीअन्नपूर्णामन्दिरस्य अन्नपूर्णेश्वरीदेव्यै स्वर्णमयीं श्रृङ्गारसामग्रीं सह अभिनन्दनपत्रं च पूजार्थं प्रेषितवन्तौ।

शुक्रवासरे अत्र मन्दिरे महन्ता श्रीशङ्करपुरीमहाराजः पत्रकारान् प्रति उक्तवन्तः— प्रसिद्धौ उद्यमिनौ मुकेशाम्बानी-नीताम्बानी च स्वपरिवारसहितं श्रीमन्दिरे स्वर्णमयीं अन्नपूर्णेश्वर्याः श्रृङ्गारसामग्रीं च अभिनन्दनपत्रं च प्रेषितवन्तौ इति।

धनवन्तरि-पर्वणि यदा मन्दिरस्य पटः उद्घाट्यते तदा अम्बानीकुटुम्बेन प्रेषिता साड़ी श्रीमात अन्नपूर्णायै अर्पयिष्यते। तेन सह आभरणानि अपि प्रेषितानि, यानि मातुः श्रृङ्गारे उपयोजयिष्यन्ति।

अन्ते महन्तेन उक्तं यत् दर्शनोत्तरं मुकेशाम्बानी-नीताम्बानीयोः कृते श्रीमात अन्नपूर्णायाः प्रसादः अत्रतः प्रेषयिष्यते।

---------------

हिन्दुस्थान समाचार