Enter your Email Address to subscribe to our newsletters
नवदेहली, 17 अक्टुबरमासः (हि.स.)। राजधानीप्रदेशे संयुक्तराष्ट्रसंघस्य मिशनयोगदानं ददतः देशानां सैन्यबलानां प्रमुखैः सह 14 तः 16 अक्टुबरपर्यन्तं सम्पन्ने सम्मेलनात् अनन्तरं नेपालदेशीयसेनायाः उपनायकः लेफ्टनेंट् जनरलः प्रदीपजङ्ग केसी भारतस्य सेनानायकं जनरल् उपेन्द्रद्विवेदीं शुक्रवारदिवसे अत्र द्विपक्षीय गोष्ठी कृता।
भारतीयसेनायाः मुख्यालये जातायाम् अस्यां गोष्ठ्यां विषये नेपालदेशीयसेनया काठमाण्डूपुरे वक्तव्यं प्रकाशितं यत्रोक्तं यत् उभयोः देशयोः सेनयोः मध्ये गाढाः ऐतिहासिकाः सांस्कृतिकाश्च व्यावसायिकाश्च सम्बन्धाः अधिकं प्रगतिकर्तुं चर्चिता इति। अस्यां गोष्ठ्यां भारतनेपालयोः सेनयोः मध्ये स्थायिसम्बन्धस्य सुदृढीकरणे बलं दत्तम्।
उभयदेशीयसैन्याधिकारिणः रक्षासहयोगस्य सुदृढीकरणे, संयुक्तप्रशिक्षणस्य वृद्धौ, संयुक्तराष्ट्रसंघस्य शान्ति अभियानेषु सहयोगविस्तारे च परस्परमभिप्रायान् अददत्। वक्तव्ये उक्तं यत् संयुक्तराष्ट्रशान्त्याभियानं तदेकं क्षेत्रम् अस्ति, यत्र उभौ देशौ स्वस्य योगदानेन वैश्विकं सम्मानं प्राप्तवन्तौ।
जनरल् द्विवेदी लेफ्टनेंट् जनरल् केसी च नियमितसंस्थागतपरिवर्तनं रक्षासंवादं च धारयितुं स्वप्रतिबद्धतां पुनः अङ्गीकृतवन्तौ। उभाभ्याम् अनेन निरन्तरसहयोगेन परिचालनतालमेलं क्षेत्रीयस्थैर्यं च सुदृढीकर्तुं महत्त्वम् उपदिष्टम्।
हिन्दुस्थान समाचार / अंशु गुप्ता