छत्तीसगढस्य जगदलपुरे आत्मसमर्पण कार्यक्रमस्य मंचे प्राप्नुवन् आत्मसमर्पित नक्सलिनः, संविधानस्य प्रतयो दत्ताः
जगदलपुरम्, 17 अक्टूबरमासः (हि.स.)।छत्तीसगढ़राज्यस्य जगदलपुर–नगरमध्ये अद्य शुक्रवासरे मुख्यमन्त्री विष्णुदेव–साय इत्यस्य सन्निधौ शीघ्रमे एव द्विशताधिकाः नक्सलिनः अधिकृतरूपेण आत्मसमर्पणं करिष्यन्ति। एभ्यः सर्वेभ्यः नक्सलिभ्यः संविधानस्य प्रतयः प्रदत्
आत्मसमर्पण कार्यक्रम के मंच में  पंहुचे आत्मसमर्पित नक्सली


जगदलपुरम्, 17 अक्टूबरमासः (हि.स.)।छत्तीसगढ़राज्यस्य जगदलपुर–नगरमध्ये अद्य शुक्रवासरे मुख्यमन्त्री विष्णुदेव–साय इत्यस्य सन्निधौ शीघ्रमे एव द्विशताधिकाः नक्सलिनः अधिकृतरूपेण आत्मसमर्पणं करिष्यन्ति। एभ्यः सर्वेभ्यः नक्सलिभ्यः संविधानस्य प्रतयः प्रदत्ताः सन्ति।

आत्मसमर्पण–कार्यक्रमः जगदलपुरस्य पुलिस्–लाइन् इत्यस्मिन् परिसरमध्ये आयोजितः अस्ति, यत्र त्रिभिः बस्–यानैः नक्सलिनः आनितााः। तेषां मध्ये स्त्री–नक्सलिनाम् संख्या अधिका अस्ति। तथैव केन्द्रीय–समितेः सदस्यः रूपेशः इत्यस्मिन् कार्–यानद्वारा कार्यक्रम–स्थले नीतः।

एतेषां नक्सलिनां मध्ये अद्य बस्तर–प्रदेशे आत्मसमर्पणं कुर्वन्तः १४० जनाः, तथा कांकेर–प्रदेशे पूर्वमेव आत्मसमर्पणं कृतवन्तः प्रायः ६० नक्सलिनः च अन्तर्भवन्ति।

गौरतव्यं यत् गतगुरुवासरे बस्तर–प्रदेशे नक्सली–संघटनस्य प्रवक्ता तथा केन्द्रीय–समितेः सदस्यः (सी.सी.एम्.) सतीश उर्फ टी. वासुदेव–राव उर्फ रूपेशः अपि आत्मसमर्पणं कृतवान्। सः माड्–डिवीजन् इत्यस्मिन् सक्रियः आसीत्, तस्मिन् एक–कोटि–रूप्यकाणां पुरस्कारः घोषितः आसीत्।

अवशिष्टेषु नक्सलिषु पञ्च–लक्ष–रूप्यकात् आरभ्य पञ्चविंशति–लक्ष–रूप्यकपर्यन्तं पुरस्कारः घोषितः आसीत्। एते नक्सलिनः ए.के.–४७, इंसास्, एस्.एल्.आर्., तथा .३०३ इत्यादीनि प्रायः त्र्याणवत्यधिकानि अस्त्राणि वहन्तः इन्द्रावती–नद्याः अपर–तीर–प्रदेशे समागताः आसन्, तस्मात् बीजापुरात् जगदलपुरम् प्रति बस्–यानैः आनीताः।

________________

हिन्दुस्थान समाचार