Enter your Email Address to subscribe to our newsletters
प्रयागराजः, 17 अक्टूबरमासः (हि.स)। संघ-शताब्दी-वर्षस्य पावने अवसरे सूचनाप्रसारणमन्त्रालयेन, भारतसर्वकारतः पंजीकृता ‘विचारसेतु’ द्विभाषीराष्ट्रीयपत्रिकायाः ‘संघशताब्दी-वर्षविशेषांकस्य’ भव्यविमोचनं तथा पत्रिकायाः आधिकारिक-जालपृष्ठस्य लोकार्पण-समारोहः अष्टादशे अक्टूबरमासस्य दिनाङ्के उत्तरप्रदेशराज्यस्य प्रयागराजस्थिते हिन्दुस्तानी-अकादेमी इत्यस्मिन् आयोज्यते।
समारोहस्य मुख्य-अतिथिः न्यायमूर्तिः गौतमचौधरी भविष्यति तथा अध्यक्षतां न्यायमूर्ति विपिन-चन्द्र-दीक्षितः करिष्यति।
विशिष्ट-अतिथिरूपेण महापौरः गणेश-केशरवानी, उच्च-न्यायालयस्य मुख्य-स्थायी-अधिवक्ता विजय-शंकर-मिश्रः, शीतलाप्रसादगौड् च उपस्थिताः भविष्यन्ति।
विचार-सेतु पत्रिकायाः अयं विशेषांकः राष्ट्रिय-स्वयंसेवक-संघस्य शत-वर्ष-पूर्णत्वं प्रति समर्पितः अस्ति, यस्मिन् संघस्य वैचारिक-यात्रा, राष्ट्र-निर्माणे योगदानं, सांस्कृतिक-पुनर्जागरणस्य विविधाः आयामाः च समाविष्टाः।
विमोचन-समारोहेन सह पत्रिकायाः जालपृष्ठस्य लोकार्पणं अपि भविष्यति, येन पत्रिकायाः डिजिटल्-संस्करणं देश-विदेशयोः पाठकेभ्यः सुलभतया प्राप्यं भविष्यति।
अस्मिन अवसरि ‘विचार-सेतु’ प्रधान-संपादकः अधिवक्ता प्रदीप-तिवारी, संपादिका रेखा-तिवारी, कार्यकारी-संपादकः संजय-कुमारः, समन्वयक-संपादकः शिव-शंकर-पाण्डेयः च, तदनु अन्ये बहवः प्रबुद्धजनाः, साहित्यकाराः, पत्रकाराः, सामाजिक-कार्यकर्तारश्च उपस्थिताः भविष्यन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता