शाही जामामस्जिदस्य अध्यक्षः विधानसभानिर्वाचनं स्पर्धितुं घोषणां कृतवान्
संभल उपद्रवस्य योजनाकर्तृरूपेण आरोपितः जामामस्जिदसमितेः अध्यक्षः विधानसभानिर्वाचनं स्पर्धिष्यति
फोटो


संभलम्, 17 अक्टूबरमासः (हि.स.)। संभलनगरस्य शाही जामा-मस्जिद-समितेः अध्यक्षः जफर अली अधिवक्ता आगामी-विधानसभानिर्वाचने स्पर्धां करिष्यति इति स्वयमेव घोषयामास। गुरुवासरे सः स्वस्य सामाजिक-माध्यमे ‘फेसबुक्’ इत्यस्मिन् निर्वाचनं स्पर्धितुं संकल्पं प्रकाशितवान्। अनया घोषणया संभलप्रदेशस्य राजनैतिक-परिदृश्ये चञ्चलता वर्धिता अस्ति। उपद्रवेन अनन्तरं चर्चायामागतः समितेः अध्यक्षः मन्यते यत् अद्य तस्य प्रति जनसमर्थनं प्रबलम् अस्ति, तस्मादेव सः निर्वाचनं स्पर्धितुं निश्चयमकरोत्।

यदा जामा-मस्जिद-समितेः अध्यक्षेन सह संवादः कृतः तदा सः अवदत् यत् अस्य सम्पर्के महान् जनसमूहः अस्ति ये इच्छन्ति यत् सः निर्वाचनं स्पर्धयेत्। अतः सः निश्चितवान् यत् सः स्पर्धां करिष्यति। कस्य दलस्य पक्षे स्पर्धिष्यति इति पृष्टे सः उक्तवान् यत् सः अनेकैः दलैः सह सम्पर्कं स्थापयति, किन्तु सः कस्यापि दलस्य पक्षे अपि स्पर्धितुं शक्नोति अथवा स्वतन्त्ररूपेणापि स्पर्धितुं सिद्धः अस्ति।

विदितं भवतु — २४ सितम्बरदिनाङ्के जामा-मस्जिदस्य सर्वेक्षणकाले यः उपद्रवः अभवत्, तस्मिन् समितेः अध्यक्षः उपद्रवस्य योजनां निर्माणे, मिथ्यावचनदानं च इत्यादिषु गम्भीरदोषैः आरोपितः आसीत्। अस्य प्रकरणे सः कारागारे अपि गच्छति स्म। सम्प्रति सः जामिन्याः आधारं प्राप्तवान् अस्ति तथा च सः व्यवसायतः अधिवक्ता अस्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता