Enter your Email Address to subscribe to our newsletters
रायगढम्, 17 अक्टूबरमासः (हि.स.)। दीपावली पर्व दृष्टौ संस्थाप्य रायगढनगरे गांधीप्रतिमा, गोगाराईस्-मिल्, हण्डीचौक, सारंगढचौक् च अन्येषु प्रमुखेषु स्थलेषु जनसाधारणस्य आवागमनं सामान्यतः अधिकं भविष्यति इति संभाव्यते। नगरीययातायात-आरक्षकाः उचितं यातायात-व्यवस्थापनं सुनिश्चितुं यानस्थानकं च यातायात-व्यवस्थां च स्थापितवन्तः।
यातायात-आरक्षकाः बीती रात्रौ विज्ञप्तिं प्रकाश्य नगरवासी, व्यापारी-बन्धवः, ग्राहकान् च प्रति आह्वानं कृतवन्तः यत् दीपावली पर्वे सुरक्षितं, सुगमं च यातायात-व्यवस्थापनं सुव्यवस्थापितुं यातायातविभागेण प्रदत्तानुसारं सहयोगं कर्तव्यं।
व्यापारी-बन्धुभ्यः आह्वानं कृतं यत् स्वप्रतिष्ठानस्य समीपे वालिटियर् / आरक्षिनियुक्त्यै अव्यवस्थितं यानस्थानकम् सम्यक् कर्तुं, सामानम् आपणिस्य बाह्यं न स्थापयितुं, कर्मचारिणां वाहनानि यथासंभव यानस्थानकस्थले एव स्थापयितुं। सुरक्षा दृष्ट्या प्रत्येक प्रतिष्ठाने सीसीटीव्ही चित्रग्राहकानि अनिवार्यं स्थापयितुं निर्देशितम्।
यानस्थानकस्थलानि-
यातायात-विभागेन निम्नस्थलानि यानस्थानकहेतुः चयनितानि – सावडिया भवन प्राङ्गणम्, रामलीला मैदानम्, श्याम टाकिज् परिसरः, गांधी गंज् परिसरः, नगर निगम् कॉम्प्लेक्स् (पुरातनः जनपदशिक्षा कार्यालयः)।
एकांगी मार्गाः
नगरस्य कतिपय मार्गाः यातायात-सुगमतायै एकांगी मार्गरूपेण सञ्चालनीयाः –
हण्डी चौक् – हटरी चौक्
केवड़ाबाड़ी चौक् – हटरी चौक्
गौरीशंकरमंदिरत्रिपथम् – नव
मालधक्कात्रिपथम् – गांधी प्रतिमात्रिपथम्
प्रतिबन्धितप्रवेशः
उक्त मार्गेषु प्रवेशः पूर्णतया निषेधः – गांधी-प्रतिमा, गोगाराईस्-मिल्, हण्डी-चौक्, सारंगढ्-चौक् (अग्रसेन-चौक्), गद्दी-चौक्।
परिवतितमार्गकेन्द्रम्
सम्मर्द-नियंत्रणार्थं गाधीप्रतिमा, रेलवे स्टेशन चौक्, शहीदचौक्, गोगाराईस्-मिल्, गद्दी-चौक् इत्यादिषु मार्गेषु परिवतितमार्गकेन्द्रानि स्थापितानि।
एवं यातायात-विभागेन दीपावलीपर्वणि नगरे सुरक्षितं, सुगमं च यातायात-परिस्थितिः सुनिश्चितुं सम्पूर्णं प्रबंधं कृतम्।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता