Enter your Email Address to subscribe to our newsletters
मुंबई, 17 अक्टूबरमासः, (हि. स.)।पश्चिमरेलमार्गेण यात्रिकसुविधार्थं दीपावलीछठ्पूजयोः पर्वकालपर्यन्तं बांद्राटर्मिनसजोधपुरस्थानयोरन्तरे विशेषभाड्येण विशेषट्रेनं सञ्चालयिष्यति इति निर्णयः कृतः।
पश्चिमरेलमार्गस्य जनसम्पर्कविभागेन प्रदत्ते विज्ञप्त्यां अनुसारं, ट्रेनसङ्ख्या 04826 “बांद्राटर्मिनस-जोधपुर सुपरफास्ट् स्पेशल्” इत्येषा प्रतिगुरुवासरे बांद्राटर्मिनसस्थानात् रात्रौ 21.20 वादने प्रस्थित्य अनन्तरदिने रात्रौ 21.45 वादने जोधपुरं प्राप्स्यति। एषा ट्रेन 23 अक्टूबर तथा 30 अक्टूबर 2025 इत्येतयोः दिनयोः सञ्चरिष्यति।
तद्वत् एव ट्रेनसङ्ख्या 04825 “जोधपुर-बांद्राटर्मिनस सुपरफास्ट् स्पेशल्” इत्येषा प्रतिबुधवासरे जोधपुरात् सायं 17.30 वादने प्रस्थित्य अनन्तरदिने सायं 18.20 वादने बांद्राटर्मिनसं प्राप्स्यति। एषा च 22 अक्टूबर तथा 29 अक्टूबर 2025 इत्येतयोः दिनयोः सञ्चरिष्यति।
एषा रेलयानद्वयम् उभयोर्दिशयोः बोरीवली, वापी, सूरत, भरूच, वडोदरा, रतलाम, कोटा, सवाईमाधोपुर, जयपुर, फुलेरा, नवासिटी, कुचामनसिटी, मकराना, डेगाना, रेन, मेडतारोड्, गोटन् इत्येषु स्थानकेषु स्थास्यति।
अस्यां ट्रेने अस्ति द्वितीयश्रेणीवातानुकूलकोच् (AC 2-tier), तृतीयश्रेणीवातानुकूलकोच् (AC 3-tier), निद्राश्रयणश्रेणी (Sleeper class) च सामान्यद्वितीयश्रेणीकोचः (General Second class)।
ट्रेनसङ्ख्या 04826 इत्यस्य बुकिङ् सर्वेषु पीआरएस्-काउण्टरसु तथा IRCTC जालस्थले च 18 अक्टूबर 2025 इत्यस्मात् तिथेः आरभ्य उपलब्धा भविष्यति।
एतस्याः ट्रेनयानस्य स्थगनस्थानानि, संरचना, समयश्च विषये विस्तीर्णविवरणं www.enquiry.indianrail.gov.in इत्यत्र द्रष्टुं शक्यते।
हिन्दुस्थान समाचार