Enter your Email Address to subscribe to our newsletters
कोलकाता, 17 अक्टूबरमासः (हि.स.)।दक्षिण–पश्चिम–वर्षाकालः देशात् निर्गमन–प्रक्रियाम् आरभ्य यावत्, तावत् उत्तर–पश्चिम–दिशातः आगत्य शुष्काः शीतलाश्च वाताः बङ्गाल–देशस्य दिशि गन्तुं प्रवृत्ताः। एतेषां द्वयोः विपरीत–दिशा–वातानाम् आपातेन सप्ताहान्ते, अर्थात् काली–पूजा–पूर्वसन्ध्यायाम्, राज्यस्य उत्तर–दक्षिण–उभय–भागेषु स्थितेषु षट् जिलासु लघु–मध्यम–वृष्टेः सम्भावना निर्दिष्टा अस्ति।
अलीपुर–वायुमान–विभागेन उक्तं यत् कोलकाता–नगरं सहितं दक्षिण–बङ्गालस्य द्वादश जिलासु सामान्यतः शुष्क–वायुमण्डलं भविष्यति। किन्तु दक्षिण–चतुर्विंशति–परगण, पूर्व–मिदनापुर इत्येतयोः सागरतटीय–प्रदेशेषु, उत्तर–चतुर्विंशति–परगणस्य कतिपये भागेषु च, तथैव उत्तर–बङ्गालस्य दार्जिलिङ्ग्, कलिम्पोंग्, तथा जलपायगुडी इत्येषु जिलासु वृष्टिः सम्भवति।
वायुमान–विभागस्य मतानुसारं, दक्षिण–पश्चिम–वर्षाकालः देशस्य अधिकांश–प्रदेशेभ्यः प्रत्यावृत्तः अस्ति। केवलं केरल, तमिलनाडु, आन्ध्र–प्रदेश, तेलङ्गाण तथा कर्णाटकस्य कतिपय–भागेषु एव अद्यापि वर्षा–वायवः सक्रियाः सन्ति।
एतस्मिन् मध्ये दक्षिण–पश्चिम–बङ्गाल–सागरस्य उपरि तथा तस्मै संलग्ने हिन्द–महासागर–प्रदेशे एकः चक्रवातः उत्पन्नः अस्ति। वायुमान–वैज्ञानिकानाम् उक्तिः यत् सः शनैः शनैः निम्न–दाब–क्षेत्रे परिणतः भविष्यति। तथापि सः बङ्गाल–देशात् पर्याप्तं दूरे भविष्यति, अतः तस्य सीधा प्रभावः बङ्गालस्य वायुमण्डले न भविष्यति।
अपि च, वर्षायाः तीव्रता न्यूनैव भविष्यति। कोलकातायाः आकाशे मेघाः दृश्यन्ते स्युः, किन्तु दक्षिण–बङ्गालस्य अधिकांश–जिलासु स्वच्छं वायुमण्डलं अनुभविष्यते।
हिन्दुस्थान समाचार