Enter your Email Address to subscribe to our newsletters
हरिद्वारम्, 17 अक्टूबरमासः (हि.स.)।ग्रामोत्थान (रीप) परियोजनायाः षण्मासिकी प्रगतिसमीक्षासभा विकासभवने रोशनाबादे सभागारे सम्पन्ना। अस्याः सभायाः अध्यक्षता मुख्यविकासाधिकारी (सी.डी.ओ.) डॉ. ललितनारायणमिश्रः अकुरुत। अस्याः सभायाः प्रमुखं उद्देश्यं आसीत् — गतषट्मासिककाले परियोजनायाः कार्यसंपादनस्य गहनं मूल्यांकनं कृत्वा, आगामिन्याः त्रैमासिक्याः कालाय स्पष्टं कार्ययोजनां निश्चितुं।
सी.डी.ओ. डॉ. मिश्रः परियोजनायाः अद्यावधिप्राप्तां प्रगतिं प्रशंस्य, केषुचित् मुख्येषु क्षेत्रेषु शीघ्रता-वृद्धिं अपेक्षितां मन्यते स्म। सभासमये प्रमुखः चर्चाविषयः आसीत् — शेयरधनं तथा एण्टरप्राइजस् इत्येतयोः लक्ष्यार्थसंपादनम्।
डॉ. मिश्रः अवदत् यत्— परियोजनायाः वित्तीयस्थैर्यं सामुदायिकस्वामित्वं च सुदृढं कर्तुं एतयोः लक्षयोः पूर्तिः अत्यन्तं आवश्यकम्। तेन परियोजनासम्बद्धं समस्तं कर्मदलम् प्रति स्पष्टाः, दृढाश्च निर्देशाः दत्ताः यत् ते युद्धस्तरेण कर्म कुर्वन्तः शेयरधन तथा एण्टरप्राइजस्-लक्ष्यं शीघ्रं शतप्रतिशतं पूरयन्तु।
समीक्षासभायां परियोजनाक्रियान्वयनसम्बद्धानां विविधानां विभागानां संस्थानानां च प्रमुखाः सहभागी आसन्। तत्र सहायक-परियोजनानिदेशिका सुश्री नलिनीघिल्डियाल, जिलापरियोजनाप्रबन्धकः संजयसक्सेना, एन.आर.एल्.एम्. संस्थायाः डी.टी.ई. सूरजरतूड़ी, मुख्यमंत्री-उद्यमशाला-योजनायाः प्रतिनिधिः, मीठीगङ्गा-एफ्.पी.ओ.-संस्थायाः प्रतिनिधिश्च उपस्थिताः आसन्।
तथा ग्रामोत्थान (रीप) परियोजनायाः सर्वे सहायक-प्रबन्धकाः, सर्वे विकासखण्डीय-रीप-कर्मचारिणः, सर्वे सी.एल्.एफ्.-कर्मचारिणः च स्वस्व-प्रगतिवृत्तैः सहिताः उपस्थिताः आसन्। सर्वे च चर्चायां सक्रियं सहभागं कृतवन्तः।
सी.डी.ओ. डॉ. मिश्रः सर्वान् प्रति आह्वानं कृतवान् यत् ते सर्वे परस्परं समन्वयं कृत्वा दृढप्रतिबद्धतया कार्यं कुर्वन्तु, यथा ग्रामोत्थान (रीप) परियोजनायाः माध्यमेन ग्रामीणक्षेत्रेषु समृद्धिः स्थाय्यजीविकाः च समये प्राप्तुं शक्यन्ते।
---
हिन्दुस्थान समाचार