आप्लावप्रभावितानां साहाय्यकृत्याय ४२ जनाः सम्मानिताः
जलपाईगुड़ी ,18 अक्टूबरमासः (हि.स)। दार्जिलिङ्गप्रदेशे च समीपस्थेषु पर्वतीयप्रदेशेषु सद्यः भूस्खलनं तथा तीव्रवृष्टेः प्रभावे प्रभावितजनानां साहाय्यकृत्याय आगतजनानां कृते राज्यसर्वकारसम्मानः प्रदत्तः। शनिवासरे मुख्यमन्त्री ममता बनर्जी जलपाईगुड़ीजिलाय
बाढ़ पीड़ितों की मदद करने वालों को सम्मानित करते  जिलाधिकारी शमा परवीन और अन्य अधिकारी


जलपाईगुड़ी ,18 अक्टूबरमासः (हि.स)। दार्जिलिङ्गप्रदेशे च समीपस्थेषु पर्वतीयप्रदेशेषु सद्यः भूस्खलनं तथा तीव्रवृष्टेः प्रभावे प्रभावितजनानां साहाय्यकृत्याय आगतजनानां कृते राज्यसर्वकारसम्मानः प्रदत्तः। शनिवासरे मुख्यमन्त्री ममता बनर्जी जलपाईगुड़ीजिलायाः आप्लावपीडितजनानां साहाय्यकृत्याय आहत्य ४२ जनान् सम्मानितवन्तः।

मुख्यमन्त्रीया कोलकातातः आभासी समारोहस्य माध्यमेन आरक्षककर्मिणः, चिकित्सकाः, स्वास्थ्यकर्मिणः, वनविभागकर्मिणः, सिविक्वालंटियरः, च सिविल् डिफेन्स् सदस्याः च सम्मानिताः। मुख्यमन्त्रीया राशिपुरस्कारः प्रमाणपत्रञ्च प्रदत्तम्। जलपाईगुड़ीजनपदस्य जिलाधिकारिणः शमा परवीन तथा अन्याः अधिकारीजनाः अस्मिन् अवसरे पुरस्काराः प्रमाणपत्राणि च प्रदत्तवन्तः।

हिन्दुस्थान समाचार / अंशु गुप्ता