Enter your Email Address to subscribe to our newsletters
लखनऊनगरम्, 18 अक्टूबरमासः (हि.स.)। मर्यादा-पुरुषोत्तम श्रीरामस्य नगरी अयोध्यायां दीपोत्सव-२०२५ इत्यस्य नवमं संस्करणं पुनरपि इतिहासं रचयितुं सज्जं भवति। भगवतः रामस्य आगमनस्य आनन्देन रामकी पैड़ी सहितानि षट्पञ्चाशत् (५६) घाटानि एकत्र मिलित्वा षड्विंशतिलक्षं एकादशसहस्रं एकं शतं एकं दीपानाम् प्रज्वलनं करिष्यन्ति, यत् दृश्यं अविस्मरणीयं भविष्यति। सरयू तटे द्विसहस्राधिकैः (२१००) वेदाचार्यैः महाआरती च मन्त्रउच्चारणं च कृतं स्यात्, यत् रामनगरे नूतनां ऊर्जा-धारां प्रवर्तयिष्यति।
उत्तरप्रदेशस्य पर्यटन-संस्कृति मन्त्री जयवीरसिंह उक्तवान् यत् – वर्षे २०१७ तमे यदा प्रथमं मुख्यमन्त्री योगी आदित्यनाथस्य प्रेरणया अयं आयोजनं आरब्धम्, तदा अयोध्यायां प्रायः एकलक्षं एकसप्ततिसहस्रं दीपकाः प्रज्वलिताः आसन्। अस्मिन् दीपोत्सवे अपि वयम् अयोध्यायां षड्विंशतिलक्षाधिकं दीपप्रज्वलनं कृत्वा विश्वविक्रमस्य स्थापने दिशि अग्रसराः स्मः।
मन्त्रिणा उक्तं यत् पर्यटन-विभागः प्रथमवारं आगन्तुकानां कृते ऑफलाइन-ऑनलाइन यात्रा-सुविधां प्रदानं करिष्यति। यूपीएसटीडीसी इत्यनेन अयोध्यायात्रिकानां कृते एकदिवसीय यात्रापैकेजः आरब्धः। तथैव दीपोत्सव ए.आर. ऐप च दिव्य अयोध्या ऐप इत्येतौ अभिनवप्रयासौ जगतः सर्वेषु कोणे-कोणे उपविष्टानामपि जनानाम् अस्य दीपोत्सवस्य अंशित्वं दत्तवन्तौ। दीपोत्सव-२०२५ मध्ये अयोध्या द्वयोः गिनीज् बुक् ऑफ वर्ल्ड रेकॉर्ड् इत्यस्य साक्षी भविष्यति — प्रथमो विक्रमः २६,११,१०१ दीपप्रज्वलनात्, द्वितीयः सरयू तटे २१०० वेदाचार्यैः प्रबुद्धजनैः च महाआरत्या स्थाप्यते।
१,१०० ड्रोनाः आकाशे रामायणस्य रूपाणि अंकयिष्यन्ति।
दीपोत्सव-२०२५ इत्यस्य अधिकं आकर्षकं भव्यं च करणस्य उद्देश्येन मेक-इन-इण्डिया अन्तर्गतं १,१०० ड्रोनाः अयोध्यायाः आकाशे रामायणस्य विविधप्रसङ्गानाम् मनोहरं दर्शनं करिष्यन्ति। स्वदेशीयाः एते ड्रोनाः जय श्रीराम , धनुषधारी श्रीरामः, संजीवनी पर्वतं वहन् हनुमान्, रामसेतु, श्रीराम जन्मभूमि-मन्दिरम् इत्यादीनि रमणीयानि रूपाणि आकाशे प्रदर्शयिष्यन्ति।
रामदरबारः, रामायणस्य सप्तकाण्डानि, वानरसेना च
दीपोत्सव-२०२५ मध्ये भगवतः श्रीरामस्य जीवने प्रसङ्गानां झलकाः अपि दृश्यन्ते। रामदरबारस्य प्रतीकात्मकम् अवतरणम्, भरत-मिलापस्य भावनात्मकं क्षणम्, तथा राज्यपाल-मुख्यमन्त्रीभ्यां भगवतः श्रीरामस्य राज्याभिषेकस्य अलौकिकं दृश्यं कार्यक्रमस्य मुख्य-आकर्षणं भविष्यति। प्रथमवारं शताधिकबालकानां वानरसेना नगाडानां निनादेन, जयघोषैः सह भगवतः श्रीरामस्य भव्य-रथयात्रायां सम्मिलिता भविष्यति। रामायणस्य सप्त काण्डानि — बालकाण्डः, अयोध्याकाण्डः, अरण्यकाण्डः, किष्किन्धाकाण्डः, सुन्दरकाण्डः, लङ्काकाण्डः, उत्तरकाण्डः — एतानि दर्शयन्त्यः रमणीयाः प्रदर्शन्यां जनानां विशेषम् आकर्षणं जनयिष्यन्ति।
त्रि-आयामीय-प्रोजेक्शन-मैपिंग् तथा म्यूजिकल् ग्रीन् फायर-क्रैकर्स शो
पर्यटन-विभागस्य प्रयत्नेन सरयूतटे रामकी पैड़ी स्थले श्रद्धालुभ्यः पर्यटकैः च त्रि-आयामीय होलोग्राफिक् म्यूजिकल् लेजर शो, आकर्षकं प्रोजेक्शन-मैपिंग्, भव्यं हाइड्रॉलिक् स्क्रीन्, अद्भुतं वाटर-टेबलो इत्यादीनां विशेष-प्रस्तुतयः दास्यन्ते। तत्सहितं शताधिककलाकार-संघः सजीव-मञ्चनरूपेण श्रीरामस्य जीवनप्रसङ्गान् आधृत्य सांगीतिक-नृत्य-सांस्कृतिक प्रस्तुतीः करिष्यति।
नेपालात् आरभ्य श्रीलंका-पर्यन्तं रामलीला
संस्कृति-विभागेन दीपोत्सवस्य अवसरं प्रति आयोजितायां सांस्कृतिक-सन्ध्यायां देश-विदेशयोः कलाकाराः स्वीयैः रंगारङ्गैः प्रदर्शनैः रामनगरीं मन्त्रमुग्धां करिष्यन्ति। रामकथा-पार्के आयोजिते अस्मिन् भव्ये सन्ध्ये विविध-राज्यानां देशानां च लोक-शास्त्रीय-परम्पराणां झलकाः दृश्यन्ते। कार्यक्रमे मणिपुरस्य रासः, गोटीपुआ-नृत्यम्, केरलेन कथकली, नेपाल-उत्तराखण्ड-श्रीलङ्कायाः रामलीलाः, सहारनपुरस्य नृत्यमयी रामायणं, बरेली-नगरस्य विख्यातः विंडरमेयर-रामलीला-नाट्यः च प्रदर्शिताः भविष्यन्ति।
धर्मपथः सहित अन्येषां मार्गाणां प्रकाश-सज्जा
उत्तरप्रदेशस्य पर्यटन-संस्कृतिमन्त्री जयवीरसिंहः उक्तवान् यत् रामनगरी मध्ये धर्मपथं सहितं प्रवेशमार्गेषु, मन्दिरमार्गेषु, प्रमुखचौराहेषु च प्रकाश-सज्जा कृतम्। थीमेटिक् लाइट्-इन्स्टॉलेशन् इत्येतानि मार्गाणां भव्यतां वर्धयन्ति, येन समग्रं वातावरणं भक्तिमयं दृश्यते। लता-चौकस्य शोभा अप्रतिमा वर्तते। देशव्यापीनां विद्यार्थिनां कृते मम दीपः, मम विश्वासः इत्यस्य अन्तर्गतं चित्रांकन, कविता, एनीमेशन प्रतियोगितानाम् विजेतारः दीपोत्सवे व्यक्तिगतरीत्या आमन्त्रिताः भवन्ति। एषः उपक्रमः युवा-कल्पनानां नूतनं पक्षं दास्यति।
हिन्दुस्थान समाचार / Dheeraj Maithani