नरसिंहपुरम् : राष्ट्रिय भावनाभिः ओतप्रोतासु समूहासु गीत प्रतियोगितासु गूंजितो देशभक्तेः स्वरः
(मध्यप्रदेशस्य नरसिंहपुरे भारत विकास परिषदः संयुक्त शाखाद्वारा कृतं भव्यम् आयोजनम्) नरसिंहपुरम्, 18 अक्टूबरमासः (हि.स.)।भारतविकासपरिषदः विवेकानन्दशाखया नरसिंहपुरशाखायाश्च संयुक्तप्रयोजनया शाखास्तरीया राष्ट्रियसमूहगीतगायनप्रतियोगिता भव्यरूपेण स्था
मातृ शक्ति l


(मध्यप्रदेशस्य नरसिंहपुरे भारत विकास परिषदः संयुक्त शाखाद्वारा कृतं भव्यम् आयोजनम्)

नरसिंहपुरम्, 18 अक्टूबरमासः (हि.स.)।भारतविकासपरिषदः विवेकानन्दशाखया नरसिंहपुरशाखायाश्च संयुक्तप्रयोजनया शाखास्तरीया राष्ट्रियसमूहगीतगायनप्रतियोगिता भव्यरूपेण स्थानीयपी.जी.महाविद्यालयस्य सभागृहे सम्पन्ना।

कार्यक्रमे विद्यालयसमूहैः देशभक्त्या संस्कारैश्च ओतप्रोतानि गीतानि गायतां, सम्पूर्णं वातावरणं राष्ट्रियैक्यस्य वर्णैः अलंकृतम् अभवत्।

अतिथिभिः संयुक्तरूपेण दीपप्रज्वलनं कृत्वा कार्यक्रमस्य उद्घाटनं सम्पन्नम्। ततः पश्चात् सर्वे उपस्थितजनाः राष्ट्रीयगीतं गायन्तः सभागारं देशभक्तिस्वरैः निनादितवन्तः।

अस्मिन् अवसरि परिषदः क्षेत्रीयअभियन्ता सुनीलकोठरी, प्रान्ताध्यक्षः सञ्जयतिवारी, प्रादेशिकसंस्कारप्रमुखः आशुतोषवर्मा, विवेकानन्दशाखाध्यक्षः उमेशदुबे, नरसिंहपुरशाखाध्यक्षः एस.के.नेमा च उपस्थिताः आसन्।

उल्लेखनीयम् यत्, संस्कारपरियोजनान्तर्गतं परिषदया एषा प्रतियोगिता प्रति वर्षं आयोजिताऽस्ति। अस्याः प्रतियोगितायाः उद्देश्यः — विद्यार्थिनां मध्ये राष्ट्रप्रेम, ऐक्यभावः, भारतीयसंस्कृतेः गौरवभावश्च जागरयितुं।

कार्यक्रमे नानाविद्यालयसमूहैः हिन्दी-संस्कृतयोः गीतानि देशीयवाद्ययन्त्रैः सह लयबद्धरूपेण प्रस्तुतानि, येन सम्पूर्णं सभागारं अद्भुतया सांगीतिकसमरसतया परिपूर्णमभवत्।

अस्मिन् वर्षे विवेकानन्दशाखायाः प्रतियोगितायां सांदीपनिविद्यालयः प्रथमं स्थानं प्राप्तवान्।

रोशनधौरेलियावर्ल्डस्कूलः द्वितीयं स्थानं, गुरुकुलज्ञानमन्दिरम् तृतीयं स्थानं प्राप्तवन्तः।

एवमेव नरसिंहपुरशाखायाः प्रतियोगितायां चाणक्यविद्यापीठः प्रथमः, चावराविद्यापीठः द्वितीयः, सरस्वतीविद्यालयः तृतीयः स्थानेषु स्थिताः।

उत्कृष्टप्रदर्शनकर्तृभ्यः विद्यालयेभ्यः सांत्वनापुरस्काराः अपि प्रदानाः।

प्रत्येकं सहभागीसमूहं परिषदया प्रमाणपत्रैः स्मृतिचिह्नैः च सम्मानितम्।

निर्णायकमण्डले माधवशेन्द्रे, पूजाबमनेले, प्रिन्सराजमुडिया इत्येते सङ्गीतविशेषज्ञाः निर्णायकरूपेण स्वकर्तव्यं यथाविधि निर्वहत।

तेषां निर्णये स्वरे, ताले, लये, प्रस्तुतेः शैली, भावाभिव्यक्तिश्च मापदण्डत्वेन स्वीकृता।

उभयशाखाभ्यां प्रथमस्थानप्राप्तसमूहान् अधुना प्रान्तस्तरीया राष्ट्रियसमूहगीतगायनप्रतियोगितायाम् सहभागित्वं प्राप्स्यन्ति, या आगामि 26 अक्टूबरदिने दमोहे आयोजितभविष्यति।

कार्यक्रमस्य संचालनं परिषदः सचिवेन आशीषनेमेन (तुलसी) अत्यन्तं प्रभावशालीरीत्या कृतम्।

समापनसत्रे अध्यक्षद्वयम् — उमेशदुबे (सेवानिवृत्तः टी.आई.) तथा एस.के.नेमा (सेवानिवृत्तः स्टेशनमास्तरः) — सर्वेषां अतिथीनां, निर्णायकारां, प्रतिभागिनां, सहयोगिनां च हार्दं धन्यवादप्रदर्शनं कृतवन्तौ।

कार्यक्रमे मातृशक्तेः सक्रियसहभागितां विशेषतया प्रशंसितवन्तः।

सुनीताराजपूत, स्वातिजायसवाल, मञ्जूपटेल, रेखावर्मा, शुभापाठक, रश्मिनेमा, रजनीचौरसिया इत्यादयः आयोजनस्य सफलतायै अत्यन्तं महत्त्वपूर्णं योगदानं दत्तवन्त्यः।

---------------

हिन्दुस्थान समाचार