कल्मिकियायाम् अवशेषानां प्रदर्शनं भारत–रूसयोः सम्बन्धान् दृढं करिष्यति - मनोजसिन्हा।
नवदेहली, 18 अक्टूबरमासः (हि.स.)। जम्मू-कश्मीरस्य उपराज्यपालः मनोजसिन्हा उक्तवान् यत् — कल्मिकियायाम् अवशेषानाम् प्रदर्शनं भारत-रूसयोः सम्बन्धान् दृढं करिष्यति। एषः आयोजनः कल्मिकियायाः जनान् प्रति आस्थायाः ऐतिहासिकं गृहागमनं भवति। कल्मिकिया यूरोपस्य
मनोज सिंहा


बौध के पवित्र अवशेष


उपराज्यपाल मनोज सिंहा रुस पहुंचे


नवदेहली, 18 अक्टूबरमासः (हि.स.)। जम्मू-कश्मीरस्य उपराज्यपालः मनोजसिन्हा उक्तवान् यत् — कल्मिकियायाम् अवशेषानाम् प्रदर्शनं भारत-रूसयोः सम्बन्धान् दृढं करिष्यति। एषः आयोजनः कल्मिकियायाः जनान् प्रति आस्थायाः ऐतिहासिकं गृहागमनं भवति। कल्मिकिया यूरोपस्य एकमेव बौद्धबहुलं प्रदेशः अस्ति। एषः आयोजनः उभयोः राष्ट्रयोः मध्ये आध्यात्मिकमित्रत्वस्य च सांस्कृतिकसेतोः च प्रतीकः अस्ति, च भगवतः बुद्धस्य शिक्षाणां ऐक्यं विश्वपटलपरि प्रदर्शयति।

रूसदेशस्य कल्मिकियायाः भगवतः बुद्धस्य पवित्रेषु अवशेषेषु प्रदर्शने समाप्ते सति,

शुक्रवासरे तान् भारतं प्रत्यानेतुं भारतीयप्रतिनिधिमण्डलेन सह आगतः मनोजः सिन्हा जनसंश्चारमाध्यमैः उक्तवान् यत् — कल्मिकियायां भगवतः बुद्धस्य पवित्रेषां अवशेषानां प्रदर्शनं भारतरूसयोः मध्ये जनजनयोः सम्बन्धान् अपि अधिकं दृढं करिष्यति।

मनोजः सिन्हा प्रख्यातस्य गेड़ेन-शेडुप-चोइकोर्लिङ्-मठे अवशेषान् प्रति श्रद्धाञ्जलिम् अर्पितवान्। सः खातकम् अर्पितवान्, दीपं प्रज्वालितवान्,च बाकुल-रिन्पोछे इत्यस्य सम्मुखे प्रार्थनां कृतवान्।

ततः सः शाजिन्-लामाय कश्मीरी-आक्षादकम् अपि अर्पितवान् च आशीर्वादं प्राप्तवान्। उच्चस्तरीयं प्रतिनिधिमण्डलम् 1९ अक्टूबरदिनाङ्के अवशेषैः सह भारतं प्रत्यागमिष्यति। अद्यावत् नवति-सहस्रात् अधिकाः श्रद्धालवः मठे तान् अवशेषान् नतवन्तः। उल्लेखनीयम् यत् — सांस्कृतिकगौरवः भगवतः बुद्धस्य एते पवित्रा अवशेषाः भारतस्य राष्ट्रीयन्यासः घोषिताः सन्ति।

एतान् उत्तरप्रदेशस्य उपमुख्यमन्त्रिणा केशवप्रसादमौर्येण नेतृत्वेन भारतात् कल्मिकियायां आनीतवन्तः आसन्।

प्रतिनिधिमण्डले वरिष्ठभिक्षवः अपि समाविष्टाः आसन्, ये तत्र

धार्मिकानुष्ठानानि अकुर्वन्।

-----------

हिन्दुस्थान समाचार / Dheeraj Maithani