Enter your Email Address to subscribe to our newsletters
भाेपालमासः, 18 अक्टूबरमासः (हि.स.)। पञ्चदिवसीयः दीपोत्सवः अद्य (शनिवासरे) धनतेरसपर्वेण आरभ्यते। धनतेरस इत्येतत् सुखसमृद्ध्याः पर्वणं मन्यते। अस्मिन् दिने लक्ष्मीदेव्या धन्वन्तरिभगवतः च गृहप्रवेशः भवति। मध्यप्रदेशस्य मुख्यमन्त्री डॉ॰ मोहनयादवः धनतेरसपर्वणि प्रदेशवासिनः प्रति शुभाशंसनं कृत्वा सर्वेषां सुखसमृद्धेः, सौख्यस्य, चानन्दस्य कामनां व्यक्तवान्।
मुख्यमन्त्रिणा डॉ॰ यादवेन सामाजिकमाध्यमे “एक्स्” इत्यस्मिन् अभिलेखम् कृत्वा स्वस्य शुभाशंसासन्देशे उक्तम्—
“ॐ नमो भगवते महासुदर्शनाय वासुदेवाय धन्वन्तरये। अमृतकलशहस्ताय सर्वभयविनाशाय सर्वरोगनिवारणाय॥
सुखसमृद्धिधनधान्यैरारोग्येण च सह धनतेरसपर्वणः हार्दिकाः शुभाशंसाश्च। एषः पर्वः भवतां सर्वेषां जीवनं हर्षेण पूरयतु, इति अहं मातुः लक्ष्म्याः समीपे प्रार्थये।”
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता