Enter your Email Address to subscribe to our newsletters
बलरामपुरम्, 18 अक्टूबरमासः (हि.स.)। धनतेरसपर्वणः आगमनेन सह रामानुजगञ्जबाजारः सर्वथा उत्सववर्णेन रञ्जितः जातः। दीपावलिपपर्वणः आहटया नगरे उत्साहः, उल्लासः, उमङ्गश्च वातावरणे प्रसृतः। मुख्यबाजारात् आरभ्य वीथीपर्यन्तं दीपप्रभाभिः, झालराभिः, नानावर्णैः अलङ्कारेभिः च शोभमानं दृश्यते—यथा सर्वं नगरं दीपमालया अलङ्कृतं स्यात्।
प्रभाते एव आपाणाः समूहेन परिपूर्णानि अभवन्। जनाः शुभमूहूर्ते सुवर्णं, रजतं, पात्राणि, वाहनानि, वैद्युतोपकरणानि, गृहसज्जासम्बद्धानि च पदार्थान् क्रेतुम् आपणेषु उपसङ्घट्टन्ते स्म। सर्वेषु आपणेषु ग्राहकराशिं दृष्ट्वा व्यापारीणां मुखानि दीर्घकालानन्तरं प्रसन्नानि अभवन्।
स्वर्णापनणानां दीप्तिः वर्धिता—
रामानुजगञ्जस्य सराफाबाजारः अस्मिन् वर्षे पूर्ववत् अपेक्षया अधिकं प्रकाशं दृश्यते। आपणेषु नूतनरूपनिविष्टानाम् आभरणानां बहुलता दृश्यते। स्त्रीजनानां मध्ये सुवर्णरजतसिक्कानां, कर्णाभूषणानां, कंकाणानां च महती मागः दृश्यते। अनिलजैनः (सराफाव्यापारी) उक्तवान्— “अस्मिन् धनतेरसदिने ग्राहकराशिः अत्यधिकः वर्धितः अस्ति। गतवर्षस्य तुलनया लगभग् पञ्चविंशतिशतं विक्रयवृद्धेः सम्भावना अस्ति।” विशेषं तु एतत् यत् यौवनवर्गः अपि लघ्वाभरणानि सिक्कांश्च क्रीत्वा शुभारम्भं करोतः।
पात्रगृहसज्जापणानां शोभा—
धनतेरसदिने पात्रक्रयणं शुभं मन्यते, एषा परम्परा पात्रापणानां शोभां वर्धयति। इस्पात, पीतल, ताम्रादीनां पात्राणां विक्रयः निरन्तरं वर्धते। वैद्युदापणेषु इण्डक्शन्, मिक्सर्, कुकर्, किचनसेट् इत्यादीनां कृते ग्राहकाराशिः कतारारूपेण दृश्यते। मालवीयमार्केट् इत्यस्य दुकानदारः दीपकअग्रवालः अवदत्— “ग्राहकानाम् उत्साहः दर्शनार्हः अस्ति। अस्मिन् वर्षे जनाः केवलं क्रयार्थं न, अपितु उत्सवस्य आनन्दाय अपि निर्गच्छन्ति। सर्वेषां मुखेषु हास्यं, सर्वासु आपणेषु चहलपहलापि दृश्यते।”
मिष्टान्नसज्जायाः च तेजः—
धनतेरसस्य चर्चायां मिष्टान्नवर्णनं विना कथं सम्भवेत्? मिष्टान्नदुकानेषु ग्राहकराशिः सन्निहितः। काजूकतली, बर्फी, लड्डु, सोहनपापडी इत्यादीनां मागः चरमे वर्तते। सह, आपणे वर्णदीपानां, झालराणां, तोरणानां, सज्जालोकप्रभाणां च विपणिः अपि तीव्रं रूपं प्राप्तवती। रीता गुप्ता (ग्राहका) अवदत्— “प्रतिवर्षवत् अस्मिन् वर्षे अपि धनतेरसदिने गृहाय नूतनं पात्रं, बालकानां कृते उपहारांश्च क्रीतानि। समग्रपरिवारसहितं क्रयानन्दः विशेषं सुखं जनयति।”
प्रशासनस्य व्यवस्था—
नगरपरिषद् उत्सवसम्मर्धः दृष्ट्वा स्वच्छता, यातायातव्यवस्था, प्रकाशसंयोजनं च विशेषतया सज्जीकृतवती। आरक्षकबलानि सततं पेट्रोलिङ्गं कुर्वन्ति यथा बाजारस्य सुरक्षा अविचलिता भवेत्। नगरपालिका-कर्मचारिणः सर्वं बाजारं स्वच्छीकरणाभियानेन शुद्धं, आकर्षकं च कृतवन्तः।
धार्मिकमहत्त्वम्—
नगरस्य पण्डितः ददनपाण्डेयः अवदत्— धनतेरसः हिन्दुधर्मे अत्यन्तं महत्त्वपूर्णः पर्वः, यः दीपावलिपञ्चदिवसीयोत्सवस्य आरम्भसंज्ञकः अस्ति। धार्मिकश्रुत्यनुसारं, अस्मिन् दिने भगवान् धन्वन्तरिः समुद्रमन्थनात् अमृतकलशं औषधिसहितं च प्रकटितवान्। धन्वन्तरिः आयुर्वेदस्य आरोग्यस्य च देवता इति मन्यते, अतः एषः दिवसः स्वास्थ्यसमृद्ध्यै दीर्घायुषे च विशेषतः पूजनीयः। अत एव “धन” इति सम्पत्त्यर्थं, “तेरस” इति तिथ्यर्थं च संबद्ध्य धनतेरसः समृद्धिपर्वः इति प्रसिद्धः।
अस्यैव सह अन्यकथा अपि प्रचलिता अस्ति यत् अस्मिन् दिने राजा हिमस्य पुत्रः हेमराजः स्वकर्मफलतः अल्पायुषी अभवत्। तस्य भार्या दीपकं प्रज्वाल्य, सुवर्णरजताभरणैः देहलीम् सज्जीकृत्य, भगवान् यमराजस्य पूजां कृत्वा तस्य मृत्युम् अपसार्यत्। तस्मात् धनतेरसदिने दीपदानक्रयचक्रयोः शुभारम्भः अभवत्। हिन्दुपरम्परायाम् अयं दिवसः न केवलं धनवैभवस्य प्रतीकः, अपि तु स्वास्थ्य, सौभाग्य, दीर्घायुषः च प्रतीकः इति मन्यते।
उल्लेखनीयं यत्, धनतेरसः केवलं क्रयपर्वः न, किन्तु एषः समृद्धेः, सौभाग्यस्य, सकारात्मकभावस्य च प्रतीकः। अस्मिन् वर्षे रामानुजगञ्जबाजारः दीपप्रभाभिः सह जनानाम् आशाभिः, हास्यैः, उत्सवभावैः च अपि प्रकाश्यते। व्यापारीणां ग्राहकेभ्यश्च हृदयेन सह उत्सवस्य आनन्दः अनुभूयते।
हिन्दुस्थान समाचार / अंशु गुप्ता