आई लव्‌ मोहम्मद” इति घोषं कृत्वा प्रदर्शनेन न, किन्तु आचरणेन चरित्रेण नबी सह प्रेमं प्रकटयन्तु — इति मौलाना अरशद्‌ मदनी ।
कानपुरम्/नवदेहली, 18 अक्टुबरमासः (हि.स.)। जमीअत्‌ उलमा-ए-हिन्द्‌संघटनस्य अध्यक्षः मौलाना सय्यद्‌ अरशद्‌ मदनी इत्यनेन उक्तं यत्‌ — यवनाः “आई लव्‌ मोहम्मद” इति घोषम् आपणेषु कृत्वा न, किन्तु स्वस्य आचरणेन चरित्रेण च नबी-करीमप्रति प्रेम व्यक्तयन्तु। स
जमीअत उलमा-ए-हिन्द के अध्यक्ष मौलाना सैयद अरशद मदनी


कानपुरम्/नवदेहली, 18 अक्टुबरमासः (हि.स.)। जमीअत्‌ उलमा-ए-हिन्द्‌संघटनस्य अध्यक्षः मौलाना सय्यद्‌ अरशद्‌ मदनी इत्यनेन उक्तं यत्‌ — यवनाः “आई लव्‌ मोहम्मद” इति घोषम् आपणेषु कृत्वा न, किन्तु स्वस्य आचरणेन चरित्रेण च नबी-करीमप्रति प्रेम व्यक्तयन्तु। सः गुरुवासरे रात्रौ उत्तरप्रदेशराज्यस्य कानपुरनगरस्थे परेड्‌-क्रीडाङ्गणे आयोजिते “तहफ़्फ़ुज़्‌ ख़त्म-ए-नबूव्वत्‌ सम्मेलन” इत्यासां सभायाम्‌ भाषणं कृतवान्‌। एतत्‌ सम्मेलनं जमीअत्‌ उलमा-ए-कानपुरस्य संरक्षणे, दारुल्‌ उलूम्‌ देवबन्दस्य मोहतमिम्‌ (प्रधानाचार्यः) मुफ्ती अबुल्‌ क़ासिम्‌ नोमानी इत्यस्य अध्यक्षतायां तथा क़ाज़ी-ए-शहर्‌ हाफ़िज्‌ अब्दुल्‌ क़ुद्दूस्‌ हादी इत्यस्य निरीक्षणे आयोजितम्‌।

मौलाना मदनी महोदयः उक्तवान्‌ यत्‌ — देशस्य वर्तमानावस्था, विविधाः भ्रामकप्रवृत्तयः, सर्वाः समस्याः च, अस्माकं नबी हज़रत्‌ मोहम्मद्‌ मुस्तफ़ा साहेबस्य सीरत्‌-ए-मुबारकायां (पैगम्बरस्य उपदिष्टमार्गे) एव समाधानं प्राप्यन्ते। अद्य द्वेषस्य बीजानि विशालवृक्षरूपं प्राप्तानि। सर्वत्र सङ्कीर्णता, पक्षपातः, धार्मिकद्वेषः च व्याप्यते। कुत्सितशक्तयः इस्लामस्य पवित्रोपदेशान्‌ विकृतरूपेण दर्शयन्ति। तथापि अस्माभिः यवनैः तादृशस्थितौ अपि नबी-करीमस्य शिक्षानुसारं धैर्यं, सहिष्णुता, प्रेम च आचरितव्यम्‌। अस्माकं प्रत्युत्तरं द्वेषस्य न भवेत्‌, किन्तु प्रेमरूपं भवेत्‌, यतः एषः एव नबी-करीमस्य मार्गः, एषः एव अल्लाह्‌ तआलायाः आदेशः।

मौलाना अरशद्‌ मदनी महोदयः पुनरुक्तवान्‌ यत्‌ — अधुना सर्वे विषयाः धार्मिकरूपेण दत्ताः, तेन विशिष्टसमुदायः लक्ष्यीकृतः। न्यायं धर्मं च परित्यज्य एकपक्षीयकार्यवाहीना तादृशं प्रदर्शनं क्रियते यत्‌ देशे अल्पसंख्यकानां विशेषतः यवनानां संवैधानिकन्यायिकाधिकाराः अपहृताः स्युः। सः उक्तवान्‌ — दुःखजनकं यत्‌ जातिपातधर्मसंप्रदायनाम्ना मनुष्यं प्रति मनुष्ये द्वेषः शिक्ष्यते। परन्तु सत्यं तु एतत्‌ यत्‌ वयं सर्वेऽपि एकस्य एव आदम (मनॊः) अपत्यानि, एकस्य एव सृष्टिकर्तुः कृतयः। इस्लामधर्मः सर्वधर्मेषु, सर्ववर्गेषु, सर्वेषां मनुष्याणां प्रति न्यायं, समता, हितं च आज्ञापयति।

हिन्दुस्थान समाचार / Dheeraj Maithani