Enter your Email Address to subscribe to our newsletters
देहरादूनम्, 18 अक्टूबरमासः (हि.स.)।दीपावलीपर्वसंदर्भे उत्तराखण्डसर्वकारेण स्वास्थ्यव्यवस्थाः सर्वतः सक्रियाः सतर्काश्च सन्तु इति निर्देशाः प्रदत्ताः। मुख्यमंत्री पुष्करसिंहधामी तथा स्वास्थ्यमन्त्री डॉ. धनसिंहरावतयोः आदेशेभ्यः स्वास्थ्यविभागेन सर्वेषां जनपदानां प्रशासनानि चिकित्सासंस्थानानि च सतर्कावस्थायाम् अवस्थितानि कृतानि, यत् कस्यचित् आकस्मिकस्थितेः शीघ्रं समाधानं साध्येत।
मुख्यमन्त्रिणा माध्यमैः सह संवादे उक्तम् — “उत्सवानां हर्षः तदा एव सार्थकः, यदा सर्वे नागरिकाः सुरक्षिताः स्वस्थाश्च भवन्ति।” तेन अधिकारियों निर्देशः कृतः यत् दीपावल्यां अग्निदुर्घटनाः, वाहनदुर्घटनाः, अन्याश्च आपत्स्थितयः यदि उत्पद्येरन्, तर्हि स्वास्थ्यसेवाः चतुर्विंशतिघण्टासु तत्पराः स्युः।
मुख्यमन्त्रिणा उक्तं यत् सर्वे चिकित्सालयाः, रुग्णवाहनसेवाः, आपत्कालीनचिकित्साकेन्द्राणि च अलर्ट्-अवस्थायाम् स्थाप्यन्ते। विभागेन पर्याप्ताः चिकित्सकाः, परिचारकाः, आवश्यकऔषधयः, उपकरणानि च संचितानि; रक्तभाण्डारं, दग्धविभागः च सम्यक् क्रियाशीलतां प्राप्नुवन्ति इति सुनिश्चितम्। सः अवदत् — “जनसुरक्षा राज्यसरकारायाः सर्वोच्चप्राथमिकता अस्ति, तस्मात् सर्वेषु जनपदेषु व्यवस्था सततं परीक्ष्यताम्।”
मुख्यमन्त्रिणा नागरिकानां प्रति अपीलापि कृता — “दीपावल्यां सुरक्षानियमानां पालनं अवश्यं कुर्वन्तु।”
स्वास्थ्यसचिवः डॉ. आर्. राजेशकुमारः उक्तवान् यत् सर्वे जिलाधिकारी मुख्यचिकित्साधिकारी च उत्सवकालं प्रति चतुर्विंशतिघण्टासु सजगाः स्युः इति निर्देशाः दत्ताः। अग्निदुर्घटना, दुर्घटनाः, अन्याश्च स्वास्थ्यआपदः इत्यादीनां सम्भावनां दृष्ट्वा चिकित्सालयाः, आघातकेन्द्राणि (Trauma Centers), नियंत्रणकक्षाश्च पूर्णतः कार्यशीलतां नीतानि।
जारीपत्रे निर्दिष्टं यत् “108” राष्ट्रीयरुग्णवाहनसेवा, जिलानियन्त्रणकक्षः, चिकित्सालयानां आपत्कालविभागाश्च निरन्तरनिग्रहे स्थाप्यन्ते। आपत्सेवासु पर्याप्ताः वैद्याः, परिचारकवर्गः च नियोजिताः।
स्वास्थ्यसचिवेन एव उक्तम् — सर्वेषु जनपदेषु अग्निशमन, पुलिस, परिवहन, स्वास्थ्यविभागानां च परस्परसम्मिलनं सुचारुरूपेण सुनिश्चितव्यं, यथा आकस्मिकस्थितौ शीघ्रं प्रत्युत्तरं दातुं शक्येत।
तेन उक्तं यत् उत्सवकाले भीडयुक्तेषु स्थानेषु — बसस्थानकेषु, रेलस्थानकेषु, विपणिषु च — मोबाइल-चिकित्सायन्त्राणि (Mobile Medical Units) नियोज्यन्ते। जिलाधिकाऱिणः स्वास्थ्यसंस्थानानां सज्जतां निरीक्ष्य आवश्यकं प्रशासनिकसहयोगं प्रदेयम् इति आदेशितम्।
सचिवेन अपि अवदत् यज्जनजागरणेन सुरक्षितपर्वसम्बन्धिनं संदेशं जनमानसे स्थाप्यते। स्थानीयमाध्यमैः, सामाजिकमाध्यमैः, सामुदायिकसञ्जालैः च अपीलाकृता यत् “आतिशबाजीं सावधानतया कुर्वन्तु, विद्युत्साधनानां उपयोगं विवेकपूर्वकं कुर्वन्तु, दुर्घटनायां जातायां त्वरितं ‘108’ सहायतासंख्या सम्पर्क्यताम्।”
अन्ते स्वास्थ्यसचिवेन डॉ. कुमारेन स्पष्टं कृतम् — “सरकार जनसुरक्षां स्वास्थ्यं च सर्वोच्चं मान्यते।”
तेन निर्दिष्टं — “सर्वे अधिकारी-कर्मचारी च सुनिश्चितयन्तु यत् उत्सवस्य हर्षेऽपि कस्यचित् नागरिकस्य चिकित्सा-सेवा-प्राप्तौ कठिनता न भवेत्।
----------------
हिन्दुस्थान समाचार