Enter your Email Address to subscribe to our newsletters
शिमला, 18 अक्टूबरमासः (हि.स.)।हिमाचलप्रदेशलोकसेवाआयोगेन पुलिसकांस्टेबलनियुक्तेः परीक्षायाः अन्तिमफलम् घोषितम्। आयोगेन उक्तं यत् स्क्रीनीङ्ग्-टेस्ट् तथा प्रपत्राणां सत्यापनस्य सर्वाः प्रक्रियाः पूर्णाः कृत्वा, १०८८ पदेषु १०४५ अभ्यर्थिनः योग्यत्वं प्राप्तवन्तः। एतेषु ६७६ पुरुषाः च ३६९ महिलाः च सन्ति।
आयोगस्य सचिवया निवेदिता नेगीया अवदत् यत् चयनितानां अभ्यर्थिनां नामानि नियुक्त्यर्थं प्रदेशसरकाराय प्रेषितानि। तेषां नियुक्तिः पुलिसविभागेन मूलदास्तावेजानां अन्तिमसत्यापनस्य अनन्तरं क्रियते। आयोगेन भर्तिप्रक्रियायाः पारदर्शिता च निष्पक्षता च प्रतिपादिता।
पुरुषवर्गे आहत्य७०८ पदाः विज्ञापिताः आसन्, किन्तु कञ्चित् वर्गेषु पात्राः अभ्यर्थिनः न सन्ति, अतः ३२ पदाः रिक्ताः। तथा महिला-वर्गे ३८० पदानां भर्तिप्रक्रिया आसीत्, यत्र ११ पदाः रिक्ताः। एवं कुलं ४३ पदाः रिक्ताः अभवन्।
पुलिसकांस्टेबल-भर्तेः लिखितपरीक्षा १५ जून् २०२५ तमे दिनाङ्के आयोजिता। तस्या: परिणामाः २ अगस्त् २०२५ तमे दिनाङ्के प्रकाशिताः, यस्मिन् पुरुषवर्गस्य १३४३ तथा महिला-वर्गस्य ६२१ अभ्यर्थिनः दस्तावेजसत्यापनाय आमन्त्रिताः। एषा प्रक्रिया २४–२९ सितम्बर् २०२५ पर्यन्तं आसीत्।
सर्वेषां अभ्यर्थिनां दास्तावेजानां गहनजाँचपरान्तं आयोगेन शुक्रवासरे रात्रौ अन्तिमचयनसूची प्रकाशितम्। आयोगेन स्पष्टं कृतम् यत् येषां दास्तावेजाः वा योग्यता प्रमाणपत्राणि निर्धारितमानकानुसारं नाभूत, तान् चयनसूच्यां न समावेशितम्। चयनसूची आयोगस्य अधिकृतवेबसाइटे उपलब्धा, यत्र अभ्यर्थिनः स्वफलम् अवलोकयितुं शक्नुवन्ति।
---------------
हिन्दुस्थान समाचार