Enter your Email Address to subscribe to our newsletters
हरिद्वारम्, 18 अक्टुबरमासः (हि.स.)। राष्ट्रियस्वयंसेवकसंघस्य शताब्दीवर्षस्य अन्तर्गतम् आयोजिते सन्तसंपर्ककार्यक्रमे संघस्य पूर्वसर्वकार्यवाहकः सुरेशजोशी उपाख्यः भैयाजी जोशी इत्यनेन उक्तं यत् — मूल्यरक्षणस्य आवश्यकता अस्माकं सर्वेषां पुरतः अस्ति। चारित्रिकपतनं भोगवादस्य दिशि नयति। अस्माभिः प्रयत्नः कर्तव्यः यत् अस्माकं चर्या सम्यक् दिशि उत्कर्षमार्गे गच्छेत्। एतदर्थं ऊर्जा सन्तानाम् आशीर्वादः च आवश्यकौ स्तः।
कनखलस्थिते कपिलवाटिकायाम् आयोजिते कार्यक्रमे भैयाजी जोशी महोदयः सन्तान् प्रति आह्वानं कृतवान् यत् — केचन विधर्मीजनाः बलात् धर्मान्तरणं कुर्वन्ति। बलप्रयोगेन विश्वस्य एकाधिकारं स्थापयितुं स्पर्धा प्रवृत्ता अस्ति। एतस्मिन्नवसरे अस्माभिः हिन्दुत्वस्य रक्षणाय संस्कारपर्यावरणकुटुम्बप्रबोधनरूपं चिन्तनं जन-जनान्तं प्रति नेतव्यम्।
जगद्गुरुः शङ्कराचार्यः स्वामी राजराजेश्वराश्रममहाराजः उक्तवान् — संघः न तु राजनैतिकः संगठनः, न सामाजिकः, न च केवलं संस्था। सः एकः विशालः सनातनकुटुम्बः अस्ति। ये जनाः संघं राजनैतिकं मन्यन्ते, ते तस्य स्वरूपं न जानन्ति। तेषां अवधारणां परिवर्तयितुं संघे गन्तव्यम्।
योगगुरुः बाबा रामदेवः उक्तवान् — अद्य विश्वे लघुदेशाः अपि स्वात्मबलात् स्थिताः। अस्माभिः तस्मिन् विषयेषु बहु पश्चाद्गमनं कृतम्। अस्माभिः सर्वैः राष्ट्रैः प्रति पूर्णसमर्पणभावेन आत्मचिन्तनं कर्तव्यम्। तदा एव राष्ट्रं सशक्तं भविष्यति।
कार्यक्रमे स्वामी चिदानन्दमुनिः, महामण्डलेश्वरः स्वामी डॉ. हरिचेतनानन्दः, महामण्डलेश्वरः स्वामी रूपेन्द्रप्रकाशः, स्वामी प्रबोधनानन्दः, स्वामी राममुनिः, स्वामी रविदेवः, स्वामी लोकेशदासः, स्वामी ऋषिश्वरानन्दः, बाबा हठयोगी, स्वामी रामविशालः, स्वामी कृष्णानन्दः, साध्वी मैत्रीगिरिः, साध्वी प्राची अन्ये च शीर्षसन्तः उपस्थिताः आसन्। संघस्य सहक्षेत्रसंपर्कप्रमुखः डॉ. हरीशः, प्रान्तप्रचारकः डॉ. शैलेन्द्रः, प्रान्तसंपर्कप्रमुखः सी.ए. अनिलवर्मा, प्रान्तसामाजिकसद्भावप्रमुखः रमेशः, जनपदसंघचालकः डॉ. यतीन्द्रनाग्यानः सहिताः अनेके प्रमुखाः पदाधिकाऱिणः उपस्थिताः आसन्।
हिन्दुस्थान समाचार / Dheeraj Maithani