गोविन्ददेवजी-मन्दिरे नि:शुल्कः श्रीलक्ष्मी-महायज्ञः रविवासरे भविष्यति
जयपुरम् 18 अक्टूबरमासः (हि.स.)। गोविन्ददेवजी-मन्दिरे महन्त अञ्जनकुमारगोस्वामिनः सान्निध्ये पञ्चदिवसीये दीपोत्सवस्य अन्तर्गते रूपचतुर्दश्यां रविवासरे नवदशोक्तोबरमासे प्रातःकाले अष्टवादने आरभ्य नि:शुल्कं श्रीमहालक्ष्मी-गायत्री-महायज्ञस्य आयोजनं क्रिय
गोविंद देवजी मंदिर में निशुल्क श्रीलक्ष्मी महायज्ञ रविवार को


जयपुरम् 18 अक्टूबरमासः (हि.स.)। गोविन्ददेवजी-मन्दिरे महन्त अञ्जनकुमारगोस्वामिनः सान्निध्ये पञ्चदिवसीये दीपोत्सवस्य अन्तर्गते रूपचतुर्दश्यां रविवासरे नवदशोक्तोबरमासे प्रातःकाले अष्टवादने आरभ्य नि:शुल्कं श्रीमहालक्ष्मी-गायत्री-महायज्ञस्य आयोजनं क्रियते स्म। तीर्थशान्तिकुञ्जहरिद्वारस्य मार्गदर्शनेन गायत्रीशक्तिपीठब्रह्मपुरीनाम्नः टोली वैदिकविधिविधानपूर्वकं यज्ञं सम्पादयिष्यति।

मन्दिरस्य सेवाधिकारी मानसगोस्वामी नामकः उक्तवान्— “गृहे सुखसमृद्ध्यै, सम्पन्नतायै, दरिद्रतारोगशोकनाशाय च श्रीलक्ष्मीगायत्रीमहा-मन्त्रेण विशिष्टां हविस्संहितां वह्निदेवाय आहुतिर्भविष्यति। श्रीवृद्ध्यर्थं कमलगुट्टकानां खीरस्य च माध्यमेन अग्निदेवाय आहुति: प्रदास्यते।” श्रद्धालुभ्यः पूजनहविसामग्री नि:शुल्कं प्रदास्यते। कस्यचित् वस्तोः आनयनस्य आवश्यकता न भविष्यति। तथापि अधिकलाभार्थं इच्छुकाः जनाः स्वगृहात् कर्पूरं लवङ्गं एला च गुग्गुलधूपं च आनयितुं शक्नुवन्ति।

समयपालनस्य शिक्षार्थं यज्ञस्थले प्रातः अष्टवादनात् पूर्वं प्रविशद्भ्यः श्रद्धालुभ्यः दीपावलिपूजनचित्रं, गोमयसामग्री, सुहागसामग्री च नि:शुल्कं उपहाररूपेण प्रदास्यते। एते सर्वे द्रव्यसमूहाः शनिवासरे सायं सांध्यप्रदर्शनं ठाकुरजिनः श्रीचरणेषु स्थाप्य गङ्गाजलेन अभिषिञ्च्यन्ते।

गायत्रीपरिवारराजस्थानस्य मुख्यन्यासी ओमप्रकाश-अग्रवालनामकः उक्तवान्— “यज्ञकाले धनस्य ज्ञानपूर्वकं सदुपयोगे विशेषमुद्बोधनं भविष्यति।”

हिन्दुस्थान समाचार / अंशु गुप्ता