Enter your Email Address to subscribe to our newsletters
-पारंपरिक कार्येण गृहस्य व्ययः दुर्भरः, नूतनसंततिः अवर्तयत् दूरताम्
पूर्वी चंपारणम्, 18 अक्टूबरमासः (हि.स.)।अथ दीपोत्सवसमये अन्येषां गृहाणि स्वदीपप्रभया प्रकाशयन्तः कुम्भकाराः स्वजीवने तु तमसि निमग्नाः जीवनं नयन्ति। एषा एव तेषां दीनदशा यत् नूतना पीढिः स्वपैतृककार्याद् दूरीं करोति। गृहव्ययपूरणाय युवानः नगरान् गत्वा श्रमजीवनं कर्तुं बाध्यन्ते।
ते वदन्ति— “यद्यपि सरकारः कुम्भकाराणां जीविकावृद्ध्यर्थं नानायोजनाः सञ्चालयति, तथापि ताः योजनाः केवलं पत्रेषु एव दृश्यन्ते, न तु व्यवहारतः लाभः प्राप्तः। एतेषां दुःखं तावत् महदस्ति— यतः इदानीं ईन्धनस्य मूल्यं गगनस्पृशं जातम्, किन्तु मृन्मयानां पात्राणां मूल्यं पञ्चवर्षेभ्यः यावत् अपरिवर्तितमेव। यदि किंचित् मूल्यमधिकं कुर्वन्ति तर्हि बाजारेषु विक्रयः न्यूनो भवति। अतः सस्ते मूल्यमेव दातुं बाध्याः भवन्ति।
चक्रे मृत्तिकादीयान् आकारयन् वृद्धः शङ्करपण्डितः कथयति— “अद्य मम वयसि अन्यं कर्म कर्तुं न शक्यते, अतः अस्मिन् एव कार्ये प्रवृत्तोऽस्मि। किंतु महङ्गायाः वृद्ध्या जनाः मृण्मयान् दीपान् उपेक्ष्य चायनीजदीपप्रकाशान् उपयुञ्जते। दीपकस्य तैलं चात्यधिकमूल्यं भवति।”
महङ्गायां जनाः स्वल्पव्ययहेतवे बाजारस्थाः चायनीजदीपप्रभाः उपयुञ्जते, येन मृण्मयदीपनिर्माणं न्यूनं जातम्। अद्य ते केवलं स्थूलानि मृण्मयपात्राणि निर्माय जीविकां वहन्ति। बंजरियाप्रखण्डस्य चैलाहाग्रामवासी कुम्भकारः बुधनपण्डितः वदति— “एतत् मम पितृपरम्परागतं कर्म, यावत् जीवामि तावत् तस्मिन् प्रवृत्तोऽस्मि। किंतु मम पुत्राः अस्मिन् कार्ये रूचिं न दर्शयन्ति। अस्मिन्नेव कार्येण गृहनिर्वाहो कठिनः। तस्मात् ते नगरं प्रति रोजगारार्थं प्रयान्ति।”
चैलाहाग्रामे एव चुल्हायिपण्डितः वदति— “अद्यतनमहङ्गायां ईन्धनव्ययः अतीवाधिकः। दूरेभ्यः मृत्तिकां महन्मूल्येन आनीय, कष्टेन दीपकान् पात्राणि च निर्माति, किन्तु व्ययेन तुल्यं वेतनं न लभ्यते। पञ्चवर्षेभ्यः यावत् मृण्मयदीपस्य मूल्यं न परिवर्तितम्। प्रत्येकं वर्षं दीपोत्सवे आगते सरकारः दीर्घाणि घोषणानि करोति, योजनाः अपि उद्घोषयति, किन्तु वस्तुतः तासां योजनानां लाभः अद्यापि न प्राप्तः।”
कुम्भकाराणां दुःखं गाढं, तेषां करपुष्करेण निर्मिताः दीपाः यद्यपि जगत् प्रकाशयन्ति, तथापि तेषां गृहाणि अन्धकारे एव स्थितानि।
---
हिन्दुस्थान समाचार