बदरी-केदार धामनी समाचरिष्यतो दीपोत्सवम्
रुद्रप्रयागः, 19 अक्टूबरमासः (हि. स.)।श्रीबद्रीनाथ-केदारनाथयोः धामयोः दीपावली-उत्सवस्य अवसरः सन्निकटः अस्ति, यस्मिन् दीपोत्सव-कार्यक्रमः आयोजनं प्राप्स्यति। उभौ मन्दिरौ पुष्पैः भव्यरूपेण अलंक्रियेताम्। अयं दीपोत्सवः विंशतितमात् अक्टूबरमासात् त्र
बदरीनाथ।


रुद्रप्रयागः, 19 अक्टूबरमासः (हि. स.)।श्रीबद्रीनाथ-केदारनाथयोः धामयोः दीपावली-उत्सवस्य अवसरः सन्निकटः अस्ति, यस्मिन् दीपोत्सव-कार्यक्रमः आयोजनं प्राप्स्यति। उभौ मन्दिरौ पुष्पैः भव्यरूपेण अलंक्रियेताम्। अयं दीपोत्सवः विंशतितमात् अक्टूबरमासात् त्रयोविंशतितमं दिनं यावत् भविष्यति।

बद्रीनाथ-केदारनाथ-मन्दिर-समितेः (बीकेटीसी) अध्यक्षः हेमन्तद्विवेदी नामकः रविवासरे उक्तवान् यत्, बद्री-केदारयोः उभयोः धामयोः बीकेटीसी-तीर्थपुरोहितैः हक्-हकूकधारिभिः च सहकार्येण दीपोत्सव-कार्यक्रमः आयोज्यते।

तेन उक्तं यत्, बद्रीनाथ-धाम्नि श्रीडिमरी-धार्मिक-केन्द्रीय-पञ्चायतेः सदस्यैः, मेहता-भण्डारी-कमदी-हक्-हकूकधारिभिः च सह दीप-प्रज्ज्वलनं करिष्यते। एवं केदारनाथ-धामे अपि तीर्थपुरोहितैः सह समन्वयं कृत्वा दीपोत्सवः आयोजितः भविष्यति।

बीकेटीसी-अध्यक्षेण उक्तं यत्, मन्दिर-प्राङ्गणं मार्गाश्च दीपैः अलङ्कृताः भविष्यन्ति। बीकेटीसी श्रद्धालु-दातृजनानां सहयोगेन दीपावली-उत्सवस्य तथा केदारनाथ-धामस्य कपाट-निर्वाण-समारोहस्य निमित्तं मन्दिरं द्वादश-क्विण्टलमितैः-पुष्पैः अलङ्कृतं भविष्यति।केदारनाथ-धाम्नः कपाटाः अस्य यात्रावर्षस्य त्रयोविंशतितमे अक्टूबरदिनाङ्के बन्दाः भविष्यन्ति। दीपावली-उत्सवस्य अवसरात् बद्रीनाथ-धामोऽपि द्वादश-क्विण्टल-पुष्पैः सज्जितः अस्ति।विशेषतः, बद्रीनाथ-केदारनाथयोः उभयोः धामयोः दीपावली-पर्वः श्वः सोमवासरे, विंशतितमे अक्टूबरमासे, आचर्यते। अस्मिन्नवसरे उभयोः धामयोः पूजाः, अर्चनाः, दीप-प्रज्ज्वलन-कार्यक्रमाश्च आयोज्यन्ते।अध्यक्षेणापि धाम्नोः दीपावली-अवसरे सुरक्षा-व्यवस्थायाः विशेष-निर्देशाः दत्ताः सन्ति।

हिन्दुस्थान समाचार