Enter your Email Address to subscribe to our newsletters
अयोध्या, 19 अक्टूबरमासः (हि.स.)।उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः दीपोत्सवस्य अवसरं प्रति रविवासरे अयोध्यां आगत्य श्रीरामललस्य दर्शनं कृतवान्। तेन श्रीराममन्दिरे प्रथमं दीपं प्रज्वाल्य ऐतिहासिकस्य दीपोत्सवस्य शुभारम्भः कृतः। दीपोत्सवसमये षड्विंशतिलक्षाधिकैः दीपैः सम्पूर्णा रामनगरी प्रकाशमयी अभवत्।
सरयू-तटे सहस्रशः पूज्य-सन्तानां लक्षाधिकानां भक्तानां च उपस्थिति भक्ति-दिव्यतयोः अनुपमं उल्लासं निर्माय, स्वर्ग एव पृथिव्यां अवतीर्ण इव अनुभूतिः जाताऽभूत्।
श्रीरामललामन्दिरे दीपोत्सवस्य आरम्भात् पूर्वं रामकथापार्के मर्यादापुरुषोत्तमः प्रभुः श्रीरामः, माता सीता, लक्ष्मणश्च आगतवन्तः। तेषां आगमनकाले मुख्यमन्त्रिणा स्वयमेव पुष्पमालाः अर्प्य, स्वागत-वन्दनं च कृतम्।
प्रभोः श्रीरामस्य, मातुः सीतायाः, लक्ष्मणस्य च स्वरूपाणि मुख्यमन्त्री योगी आदित्यनाथेन अतीव श्रद्धया दिव्यरथोपविष्टानि कृतानि। तदा त्रेतायुगं जीवन्मिव सञ्जातम्। एषः स्वर्णमयः हृदयग्राही दृश्यः दृष्टमात्रेण सम्पूर्णा अयोध्या भक्तेः प्रकाशेन, रामनामस्य ऊर्जा-प्रवाहेन च पूरिता अभवत्।
यदा रथः नगरयात्रां आरब्धवान्, तदा सम्पूर्णा अयोध्या “जय सियाराम” इत्यस्य घोषेण निनादिता। मंचं प्राप्ते, श्रीरामदरबारस्य प्रतीकस्वरूपाणां तिलकं कृत्वा मुख्यमन्त्रिणा वन्दन-अभिनन्दनं कृतम्।
दीपोत्सवात् परं रामकीपैड्यां भव्यः लेजर-प्रदर्शनः आयोजितः।
अवसरेऽस्मिन् मुख्यमन्त्रिणा उक्तं यत्— “प्रभुः श्रीरामः भारतस्य प्राणः। तस्य पथ एव अस्माकं नीति:। तस्य आदर्शः एव अस्माकं दिशा। अद्य अयोध्याधामात् विश्वे भारतीय-संस्कृतेः आत्मा, सनातन-धर्मस्य श्रद्धा, रामराज्यस्य आदर्शाश्च दिव्यसन्देशरूपेण प्रसारिताः।
राममन्दिरनिर्माणेन सर्वे सनातनी जनाः गर्विताः भवन्ति। अद्य सनातन-आस्थायाः गौरवः पुनरुत्थितः। ते अस्माकं पूर्वसत्तां प्रति गोलीप्रयोगं अकुर्वन्, वयं दीपप्रज्वलनं कुर्मः। सपा-दलेन अयोध्या “फैज़ाबाद” इति नाम्ना परिभाषिता आसीत्, वयं तु गुलामत्वस्य प्रतीकान् निवारयामः।”
दीपोत्सवात् पूर्वं साकेत-महाविद्यालयात् नवघाटं प्रति शोभायात्रा अपि आयोजिताभूत्। संस्कृति-मन्त्री जयवीरसिंहेन “जय श्रीराम” इति ध्वजं लोलयन्, ढोल-नगाडान् वादयन्, रामायणाधारितां भव्यां शोभायात्रां प्रेषितवान्।
दीपोत्सव-२०२५ इयं शोभायात्रा त्रेतायुगस्य झलकां प्रदर्शयन्ती श्रद्धा-लोकनृत्य-सांस्कृतिकोत्साहयोः अद्भुतं उदाहरणं जाता।
अस्यां शोभायात्रायां रामायणस्य सप्त काण्डानि — बालकाण्डः, अयोध्याकाण्डः, अरण्यकाण्डः, किष्किन्धाकाण्डः, सुन्दरकाण्डः, लङ्काकाण्डः, उत्तरकाण्डश्च — दर्शयन्त्यः द्वाविंशतिः (२२) आकर्षकाः झाङ्क्यः सर्वेषां मनांसि मोहितवन्तः।
अवसरेऽस्मिन् पर्यटनमन्त्री जयवीरसिंहेन उक्तं यत्— “मुख्यमन्त्रिणः योगी आदित्यनाथस्य दूरदर्शीनेतृत्वे दीपोत्सवस्य प्रत्येकं संस्करणं स्वकीयं कीर्तिमानं भङ्क्त्वा नवान् आस्था-भव्यतायाः शिखरान् स्थापयति।
अस्य वर्षस्य दीपोत्सवः केवलं दिव्यतायाः उत्सवः न, अपि तु ‘एकं भारतं, श्रेष्ठं भारतं’ इति भावनायाः सशक्तं प्रतीकं यः सांस्कृतिकैक्यं सामाजिकसौहार्दं च प्रसारयति।”
दीपोत्सवस्य अवसरात् श्रीरामजन्मभूमि-तीर्थक्षेत्र-ट्रस्टस्य अध्यक्षः मणिरामदासछावनीयाः महन्तः नृत्यगोपालदास-महाराजः, महासचिवः चंपतरायः, कृषिमन्त्री सूर्यप्रतापशाही, राज्य-मन्त्री सतीशशर्मा, राष्ट्रिय-स्वयंसेवक-संघस्य क्षेत्र-प्रचार-प्रमुखः सुभाषः, अयोध्यायाः विधायकः वेदप्रकाशगुप्तः, बीकापुर-विधायकः डॉ॰ अमितसिंहचौहानः, रूदौली-विधायकः रामचन्द्रयादवश्च प्रमुखरूपेण उपस्थिताः आसन्।
हिन्दुस्थान समाचार