मुख्यमंत्री प्रदेशवासिभ्योऽददात् दीपावल्याः शुभकामनाः
लखनऊ, 19 अक्टूबरमासः (हि.स.)।उत्तरप्रदेशस्य मुख्यमंत्री श्री योगी आदित्यनाथस्य दीपावली-पर्वणः शुभकामनासन्देशःउत्तरप्रदेशस्य मुख्यमंत्री श्री योगी आदित्यनाथः प्रकाशपर्व दीपावलीपावनस्मरणे प्रदेशवासिनः हार्दिकं अभिनन्दनं शुभकामनाश्च प्रेषयित्वा प्रभु
मुख्यमंत्री योगी आदित्यनाथ


लखनऊ, 19 अक्टूबरमासः (हि.स.)।उत्तरप्रदेशस्य मुख्यमंत्री श्री योगी आदित्यनाथस्य दीपावली-पर्वणः शुभकामनासन्देशःउत्तरप्रदेशस्य मुख्यमंत्री श्री योगी आदित्यनाथः प्रकाशपर्व दीपावलीपावनस्मरणे प्रदेशवासिनः हार्दिकं अभिनन्दनं शुभकामनाश्च प्रेषयित्वा प्रभु श्रीरामात् तेषां सुखसमृद्धि मंगलमयं च जीवनं प्रार्थितवान्।रविवासरे प्रेषिते शुभकामनासन्देशे ते उक्तवान् “पर्वाणि उत्सवाश्च शान्तिम्, ऐक्यं, सद्भावं च संवदन्ति तथा सामाजिकसौहार्दस्य वृद्धिं कुर्वन्ति।दीपावली पर्वः भारतस्य सनातनधर्मपरम्परायाः एकः महत्वपूर्णः पर्व अस्ति।मर्यादापुरुषोत्तमः भगवान् श्रीरामः चतुर्दशवर्षीयं वनवासं याप्य अयोध्यां प्रतिगमनं कृत्वा रामराज्यस्य शुभारम्भस्य स्मृतिरेव।तस्मात् आजाद्याः सहस्रवर्षेभ्यः पूर्वं सम्पूर्णे भरतखण्डे श्रद्धालवः दीपमालाभ्यः स्वगृहेषु दीपोद्धाटनं कुर्वन्तः इदंपर्व आचरन्ति आरब्धवन्तः।”

मुख्यमंत्री अवदत्यत्“इदम् अस्माकं सौभाग्यं यत् मर्यादापुरुषोत्तमः भगवान् श्रीरामस्य पावनं जन्मस्थानं अयोध्या उत्तरप्रदेशे अस्ति।राज्यसरकार अयोध्यायां दीपावली-आयोजनस्य प्राचीनं गौरवशालीं परम्परां ‘दीपोत्सव’ आयोजनस्य माध्यमेन पुनर्प्रतिष्ठापयित्वा सम्पूर्णं विश्वसमुदायं अयोध्यायाः महिमा-परिचयं कुर्यात्।”

-------------

हिन्दुस्थान समाचार