पाकिस्तान- अफगानिस्तानयोः युद्ध विरामे सहमतिः, दोहायां संजाता उच्चस्तरीय वार्ता
दोहा, 19 अक्टूबरमासः (हि.स.)।कतरदेशस्य राजधान्यां दोहायां पाकिस्तान-अफगानिस्तानयोः मध्ये सम्पन्नायां उच्चस्तरीयवार्तायाम् तात्कालिकरूपेण संघर्षविरामस्य विषये सहमति: जाता।संघर्षविरामस्य प्रभाविप्रवर्तनम् अधिकृत्य चर्चां कर्तुं उभयदेशीयप्रतिनिधयः आगा
दोहा में पाकिस्तान-अफगानिस्तान के बीच शांति वार्ता


दोहा में पाकिस्तान और अफगानिस्तान के बीच शांति वार्ता को लेकर कतर ने बयान जारी किया


दोहा, 19 अक्टूबरमासः (हि.स.)।कतरदेशस्य राजधान्यां दोहायां पाकिस्तान-अफगानिस्तानयोः मध्ये सम्पन्नायां उच्चस्तरीयवार्तायाम् तात्कालिकरूपेण संघर्षविरामस्य विषये सहमति: जाता।संघर्षविरामस्य प्रभाविप्रवर्तनम् अधिकृत्य चर्चां कर्तुं उभयदेशीयप्रतिनिधयः आगामीचरणे दोहा-इस्लामाबादनगरयोः सभां करिष्यन्ति।

उभयदेशयोः सीमायां गतपक्षद्वये यावत् प्रवृत्तं संघर्षं निरन्तरं गम्भीररूपं गृहीत्वा स्थितम्, यस्मिन् उभयपक्षयोः सैनिकानां सह सामान्यजनानामपि मृत्युः अभवत्।

कतरस्य विदेशमन्त्रालयेन सोशल-मीडिया-प्लेटफॉर्म् एक्स (X) इत्यस्मिन् प्रकाशिते वक्तव्ये उक्तं यत् —कतर-तुर्की-मध्यस्थयोः सहाय्येन पाकिस्तान-अफगानिस्तानयोः मध्ये दोहा-नगरस्थायां उच्चस्तरीयवार्तायां उभयदेशौ तात्कालिकसंघर्षविरामे सममते।कतरदेशेन आशा व्यक्ता यत् एषः समझौतः पाकिस्तान–अफगानिस्तानसीमायां वर्धमानं तनावं न्यूनीकृत्य क्षेत्रीयस्थिरतां स्थापयिष्यति।

दोहा-वार्तायाम् उभयदेशीयः उच्चस्तरीयप्रतिनिधिमण्डलः सम्मिलितः। गल्प्-न्यूज़् (Gulf News) इत्याख्यस्य वृत्तान्तानुसारं पाकिस्तानस्य पक्षतः रक्षामन्त्री ख्वाजा मुहम्मद् आसिफः तथा गुप्तचरप्रधानः जनरल् असीम् मलिकः भागं गृहीतवन्तौ।अफगान-सरकारस्य प्रवक्ता ज़बीहुल्लाह् मुजाहिदः अवदत् यत् — अफगानरक्षामन्त्री मुल्ला मुहम्मद् याकूबः नेतृत्वेन उच्चस्तरीयप्रतिनिधिमण्डलं वार्तायां सहभागी अभवत्, यस्मिन् गुप्तचरप्रमुखः अब्दुल् हक् वकीकः अपि सम्मिलितः।

वार्तापूर्वं पाकिस्तानस्य विदेशमन्त्रालयेन वक्तव्यं प्रकाशितं यत्र उक्तं यत् —“अयं संवादः अफगानिस्तानतः सीमापारं आतंकवादं समाप्तुं, सीमायां शान्तिं स्थैर्यं च पुनः स्थापयितुं उपायेषु केन्द्रितः भविष्यति।”तत्र कतरस्य मध्यस्थतायाः प्रशंसा कृत्वा उक्तं यत् —“एता चर्चाः क्षेत्रे शान्तेः स्थैर्यस्य च संवर्धने महत् योगदानं दास्यन्ति।”

उभयदेशयोः मध्ये गतपक्षद्वयात् प्रवृत्तः संघर्षः तदा अत्यन्तं भीषणः जातः यदा संघर्षविरामकाले एव एकस्मिन् वाय्वाक्रमणे अफगानस्थानस्य त्रयः क्रिकेटखेलकाः मृत्युमुपागताः।अफगान-सरकारा आरोपं कृतवती यत् पाकिस्तानदेशेन संघर्षविरामस्य उल्लङ्घनं कृत्वा सामान्यजनान् लक्षीकृत्य आक्रमणं कृतम्।पाकिस्तानदेशः तु प्रत्युत्तररूपेण अवदत् यत् — सः केवलं अफगानस्थानस्य सीमासमीपे स्थितान् आतंकिशिबिरान् एव लक्षीकृतवानिति।

---------------

हिन्दुस्थान समाचार