Enter your Email Address to subscribe to our newsletters
नव दिल्ली, 19 अक्टूबरमासः (हि.स.)।दीपावल्याः छठ्पर्वणश्च आगमे पूर्वं दिल्लीनगरस्य रेलस्थानकेषु यात्रिणां महान् समुदायः दृष्टुं लभ्यते। राजधानीप्रदेशस्य आनन्दविहार, नवीदिल्ली, सरायरोहिल्ला, हजरतनिजामुद्दीन इत्येषु रेलस्थानकेषु स्वगृहं प्रति गच्छतां यात्रिणां घनः समूहः समागतः अस्ति। प्रभाते एव प्लैट्फॉर्मेषु चिटिकागवाक्षात् च दीर्घाः पङ्क्तयः दृश्यन्ते। रेलयानस्थानं न लब्ध्वा कतिचन यात्रिणः प्रतीक्षासूच्यां स्थित्वा गन्तुं विवशाः भवन्ति।
रेलवे-अधिकारीणां वचनेन पूर्वदिग्गच्छन्तीनां बिहारगामिनीनां च रेलयानानां आरक्षणं पूर्णम् अस्ति। आनन्दविहार-रेलस्थानकात् प्राप्तासु चित्रेषु महान् जनसमूहः दृश्यते, यत्र यात्रिणः स्वकुटुम्बैः सह रेलयानस्य प्रतीक्षां कुर्वन्ति। रेल्वे-प्रशासनम् उत्सवान् समीक्ष्य अनेकानि विशेष-रेलयानानि सञ्चालयति, येन यात्रिणां गृहप्रापणे सुविधा भवेत्।
---------------
हिन्दुस्थान समाचार