गृहमंत्री प्रेषितवान् कर्नाटकमहाराष्ट्राभ्यां राज्यापदारक्षण कोषस्य द्वितीयं राशिं 1,950.80 कोटिरुप्यकमितम्
नवदिल्ली, 19 अक्टूबरमासः (हि.स.)।केन्द्रीयगृह-सहकारितामन्त्री अमितशाहेन कर्नाटक-महाराष्ट्रराज्याभ्यां प्रति राज्यआपद्-रक्षण-कोषस्य केन्द्रीय-अंशरूपेण द्वितीयकिस्तरूपया १,९५०.८० कोटिरूप्यकाणां विमोचनाय अनुमतिः दत्ता। तस्मिन् कर्नाटकाय ३८४.४० कोटिरू
अमित शाह नांदेड


नवदिल्ली, 19 अक्टूबरमासः (हि.स.)।केन्द्रीयगृह-सहकारितामन्त्री अमितशाहेन कर्नाटक-महाराष्ट्रराज्याभ्यां प्रति राज्यआपद्-रक्षण-कोषस्य केन्द्रीय-अंशरूपेण द्वितीयकिस्तरूपया १,९५०.८० कोटिरूप्यकाणां विमोचनाय अनुमतिः दत्ता। तस्मिन् कर्नाटकाय ३८४.४० कोटिरूप्यकाणि, महाराष्ट्राय १,५६६.४० कोटिरूप्यकाणि च अन्तर्भवन्ति। एषा राषिः दक्षिण-पश्चिम-मानसूनकाले जातया अतिवृष्ट्या बाढया च पीडितानां जनानां शीघ्रं रक्षणार्थं प्रदत्ता।

गृह-मन्त्रालयस्य अनुसारं वित्तवर्षे २०२५-२६ पर्यन्तं केन्द्रीय-सर्वकारो राज्य-आपद्-रक्षण-कोषान्तर्गतं सप्तविंशत् (२७) राज्येभ्यः १३,६०३.२० कोटिरूप्यकाणि, राष्ट्रिय-आपद्-राहत-कोषान्तर्गतं पञ्चदश (१५) राज्येभ्यः २,१८९.२८ कोटिरूप्यकाणि च विमोचितानि।

अतिरिक्ततया राज्य-आपद्-न्यूनीकरण-कोषतः एकविंशतिः (२१) राज्येभ्यः ४,५७१.३० कोटिरूप्यकाणि, राष्ट्रिय-आपद्-न्यूनीकरण-कोषतः नव (९) राज्येभ्यः ३७२.०९ कोटिरूप्यकाणि च विमोचितानि सन्ति।

अस्मिन् वर्षे मानसूनकाले त्रिंशत् (३०) राज्येषु केन्द्रशासितप्रदेशेषु च १९९ आपद्-रक्षण-दलानि बचाव-रक्षण-कार्येषु नियोजितानि आसन्।

केन्द्रीय-सर्वकारो जलप्लावनेन-, भू-स्खलन-, मेघ-विदारणादिभिः प्रभावित-राज्येभ्यः सर्वाणि आवश्यकानि आपद्-राहत-दलानि, सेनां, वायुसैन्यस्य च सहयोगम् अपि प्रदत्तवती।

---------------

हिन्दुस्थान समाचार