रक्षा मंत्री राजनाथ सिंहः 21 अक्टूबर दिनाङ्के राष्ट्रियारक्षिस्मारके हुतात्मभ्यो दास्यति श्रद्धांजलिम्
नवदिल्ली, 19 अक्टूबरमासः (हि.स.)।रक्षा-मन्त्री राजनाथसिंहः एकविंशे अक्टूबरमासे दिनाङ्के नवीदिल्लीस्थे राष्ट्रिय-पुलिस-स्मारके पुलिस-शहीदानां प्रति श्रद्धाञ्जलिं दास्यति। मुख्यकार्यक्रमरूपेण अत्र केन्द्रीय-सशस्त्र-पुलिस-बलानां दिल्ली-पुलिसदलस्य च
राजनाथ सिंह


नवदिल्ली, 19 अक्टूबरमासः (हि.स.)।रक्षा-मन्त्री राजनाथसिंहः एकविंशे अक्टूबरमासे दिनाङ्के नवीदिल्लीस्थे राष्ट्रिय-पुलिस-स्मारके पुलिस-शहीदानां प्रति श्रद्धाञ्जलिं दास्यति। मुख्यकार्यक्रमरूपेण अत्र केन्द्रीय-सशस्त्र-पुलिस-बलानां दिल्ली-पुलिसदलस्य च संयुक्तः पदप्रयाणं भविष्यति।

गृह-मन्त्रालयस्य अनुसारं रक्षा-मन्त्री, गृह-राज्य-मन्त्री, केन्द्रीय-सशस्त्र-पुलिस-बलानां च प्रमुखाः, सेवानिवृत्ताः महानिदेशकाः अन्ये अधिकारीणश्च शहीदेषु पुष्पाञ्जलिं अर्पयिष्यन्ति।

रक्षा-मन्त्री कार्यक्रमकाले शहीदानां वीरतां स्मरिष्यति, पुलिस-बलानां समक्षं आगतानि विविधानि आह्वानानि च स्वविचारैः प्रकाशयिष्यति।

कार्यक्रमस्य समापनं हॉट्-स्प्रिंग्स्-नाम्नि स्थले शहीदानां स्मृतिवेद्यां पुष्पाञ्जलि-अर्पणेन भविष्यति।

अत्र द्वाविंशतितमात् अक्टूबरमासात् त्रिंशत्तमं दिनं यावत् नानाविधानि कार्यक्रमाणि आयोजयिष्यन्ते।

तत्र हुतात्मनां परिवाराणां यात्रा, पुलिस-बैण्ड-प्रदर्शनम्, मोटरसायकल-रैली, Run for Martyrs इति नामकं धावनम्, रक्तदान-शिविरम्, निबन्ध-चित्रकला-प्रतियोगिताश्च भविष्यन्ति।

एतेषां कार्यक्रमाणां उद्देश्यः पुलिस-बलानां साहसम्, बलिदानं, सेवाश्च स्मारयितुं भवति।

विशेषतः, प्रतिवर्षं एकविंशे अक्टूबरमासे पुलिस-स्मृतिदिवसः तेषां दशानां वीरपुलिसकर्मणां स्मरणार्थं आचर्यते, ये १९५९ तमे वर्षे लद्दाखप्रदेशे हॉट्-स्प्रिंग्स्-नाम्नि स्थले चीनदेशीयैः कृतसंधिनिपातेन वीरमरणं गताः आसन्।

---------------

हिन्दुस्थान समाचार