Enter your Email Address to subscribe to our newsletters
नवदेहली, २ अक्टुबरमासः (हि.स.)। गान्धीजयन्ती-अवसरे भारतस्य गृहकार्यमन्त्री अमितशाहः गुरुवासरे अत्र कनॉट-प्लेस्-प्रदेशे स्थिते खादी-इण्डिया शालायाम् आगत्य खादी-उत्पादान् अक्रेत्, तेषां च ऑनलाइन-भुगतानम् अकरोत्। अस्मिन् अवसरे अमितशाहेन देहली-खादी-महोत्सवः 2025 उद्घाटितः। तेन बापुः खादी-स्वदेशी-विचारौ प्रणम्य जनान् प्रति वार्षिकं न्यूनतः 5 सहस्ररूप्यकस्य खादीवस्त्राणि क्रेतुम् आह्वानं कृतम्। अस्मिन् अवसरे खादी-ग्रामोद्योग-आयोगस्य अध्यक्षः मनोजकुमारः अपि उपस्थितः आसीत्।
अमितशाहः माध्यमकर्मिभ्यः उक्तवान् यत् प्रत्येककुटुम्बेन वार्षिकं न्यूनतः 5 सहस्ररूप्यकाणि मूल्ये खादी-उत्पादाः क्रेतव्याः। यद्यपि सः आच्छादनं भवतु, तल्यावरणं भवतु, परदा भवतु, तौलिकं वा। यदा भवन्तः एतानि क्रयन्ते, तदा भवद्भिः कस्यचित् व्यवसायः निर्मीयते, सहस्रशः दरिद्रजीवनेषु प्रकाशः प्रज्वलितः भवति। यदा भवन्तः स्वदेशीमार्गं गृह्णन्ति, तदा 2047 तमं वर्षं पर्यन्तं भारतं जगति शीर्षस्थाने स्थापयितुं महत्त्वाकांक्षिणि अभियानि योज्यन्ते। सहस्रशः परिवाराः स्वगृहेषु विदेशीय-वस्तूनाम् उपयोगं न कर्तुम् सङ्कल्पं कृतवन्तः। लक्षशः व्यापारी अपि स्व-आपणेषु विदेशीय-वस्तूनाम् अक्रयणं न कर्तुं सङ्कल्पं कृतवन्तः। तेन जनान् प्रति एतयोः अभियानयोः सफलतां करोतु इति प्रार्थना कृता।
अमितशाहः उक्तवान् यत् देशे दीर्घकालं खादी-स्वदेशी-विचारौ विस्मृतौ जातौ। 2003 तमे वर्षे यदा नरेन्द्रमोदी गुजरातस्य मुख्यमन्त्री आसीत्, तदा तेन गुजरातराज्ये खादीं पुनरुज्जीवयितुं महान् अभियानः आरब्धः। 2014 तमात् वर्षात् अद्यावत् च खादीव्यवसायः शतगुणाधिकेन वृद्ध्या 1.7 अरब-रूप्यकपर्यन्तं प्राप्तः अस्ति। एषा महान् उपलब्धिः इति सः उक्तवान्।
हिन्दुस्थान समाचार / अंशु गुप्ता