वन्यजीव सप्ताहस्य अवसरात् मानेसरप्रदेशे ‘नमोवन’ इत्यस्य शिलान्यासः कृतः
गुरुग्रामः, 2 अक्टूबरमासः (हि.स.)। केंद्रीयः पर्यावरण–वन–जलवायुपरिवर्तनमन्त्री भूपेन्द्रः यादवः हरियाणाराज्यस्य मन्त्रिणा राव नरबीरसिंहेन सह गुरुवासरे मानेसरनगरमध्ये “नमो वन” इत्यस्य शिलान्यासं कृतवान्। अस्मिन् अवसरि “एकं वृक्षं मातुः नाम्नि” इति अभि
वन सप्ताह के तहत पौधारोपण करते हुए केंद्रीय मंत्री  भूपेंद्र यादव


गुरुग्रामः, 2 अक्टूबरमासः (हि.स.)। केंद्रीयः पर्यावरण–वन–जलवायुपरिवर्तनमन्त्री भूपेन्द्रः यादवः हरियाणाराज्यस्य मन्त्रिणा राव नरबीरसिंहेन सह गुरुवासरे मानेसरनगरमध्ये “नमो वन” इत्यस्य शिलान्यासं कृतवान्। अस्मिन् अवसरि “एकं वृक्षं मातुः नाम्नि” इति अभियानस्य अन्तर्गतं वृक्षारोपणकार्यक्रमोऽपि आचरितः।

अत्र समाजस्य विविधवर्गेभ्यः सक्रियसहभागिता दृष्टा। विद्यालयविद्यार्थिनः, वनविभागस्य कर्मचारीणः, पत्रकाराः, समाजसेविनः अन्ये च हितधारकाः — ये वन–वन्यजीवसंरक्षणकार्येषु प्रमुखं योगदानं दत्तवन्तः, ते सर्वे तेषां प्रयत्नानां कृते सम्मानिताः।

सोशलमीडियामञ्चे “एक्स” इति नाम्नि एकस्मिन् प्रकाशने भूपेन्द्रेण यादवेन भारतस्य जैवविविधतासंरक्षणस्य महत्त्वं प्रतिपादितम्। सः अवदत् — “वन्यजीवसप्ताहस्य उद्देश्यः अस्ति यत् देशस्य प्रत्येकनागरिकस्य समीपं वनस्पतिजीवजन्तुसंरक्षण–संवर्धनयोः सन्देशः प्राप्येत।”

प्रत्येकवर्षे अक्टूबरमासस्य २ तः ८ दिनपर्यन्तं वन्यजीवसप्ताहः आयोज्यते। अस्य प्रमुखः प्रयोजनं वन्यजीवसंरक्षणस्य, पारिस्थितिकसमतोलस्य च महत्त्वे विषये जनजागरूकता–वृद्धिः। अस्य वर्षस्य आयोजनं “सेवापर्व” इत्यस्य विषयाधारेण प्रचलितम्, यः विषयः प्रकृतेः प्रति सेवा–कर्तव्य–उत्तरदायित्वबोधं विस्तृतरूपेण प्रतिबिम्बयति।

--------------

हिन्दुस्थान समाचार / अंशु गुप्ता