मुख्यमंत्रिणा राष्ट्रपिता गांधी पूर्व प्रधानमंत्री शास्त्री च प्रणतौ
देहरादूनम्, 2 अक्टूबरमासः (हि.स.)।मुख्यमन्त्री पुष्करसिंधामी महात्मानं गाँधीं राष्ट्रपितरं पूर्वप्रधानमन्त्रिणं च लालबहादुरशास्त्रीं तयोः जयंतीदिने नत्वा श्रद्धाञ्जलिं अर्पितवान्। मुख्यमन्त्रिणा उक्तं यत् महात्मा गाँध्याः सत्याहिंसयोः सिद्धान्तौ अद्य
मुख्यमंत्री पुष्कर सिंह धामी महात्मा गांधी और लाल बहादुर शास्त्री  के चित्र पर मुख्यमंत्री आवास में पुष्प अर्पित करते।


मुख्यमंत्री राष्ट्रपिता महात्मा गांधी की जयंती पर गांधी पार्क, देहरादून में उनकी प्रतिमा पर माल्यार्पण करते।


देहरादूनम्, 2 अक्टूबरमासः (हि.स.)।मुख्यमन्त्री पुष्करसिंधामी महात्मानं गाँधीं राष्ट्रपितरं पूर्वप्रधानमन्त्रिणं च लालबहादुरशास्त्रीं तयोः जयंतीदिने नत्वा श्रद्धाञ्जलिं अर्पितवान्। मुख्यमन्त्रिणा उक्तं यत् महात्मा गाँध्याः सत्याहिंसयोः सिद्धान्तौ अद्यापि प्रासंगिकौ स्तः, लालबहादुरशास्त्री च सादग्यस्य प्रतिमूर्तिरेव।

शुक्रवासरस्य प्रातःकाले मुख्यमन्त्रिगृहे मुख्यमन्त्रिणा महात्मा गाँधीं राष्ट्रपितरं पूर्वप्रधानमन्त्रिणं च लालबहादुरशास्त्रीं तयोः जयंतीसमये उभयोः चित्रयोः उपरि पुष्पाण्यर्पयित्वा भावपूर्णं नमनं कृतम्। तस्मिन् अवसरि मुख्यमन्त्रिणा उक्तं यत् महात्मा गाँध्याः देशस्य कृते कृतं कार्यं देशः सर्वदा ऋणी भविष्यति। महात्मा गाँध्याः सत्याहिंसयोः सिद्धान्तौ अद्यापि प्रासंगिकौ स्तः। अस्माभिः स्वस्य आचरणे अहिंसाभावः जाग्रेयः, मानवतायाः प्रति करुणाभावः अपि उत्पाद्यः। एषः एव तेषां प्रति अस्माकं सच्चिद्रधाञ्जलिः भविष्यति।

मुख्यमन्त्रिणा पूर्वप्रधानमन्त्रिणं स्वर्गीयं लालबहादुरशास्त्रीं स्मृत्वा उक्तम्—“शास्त्रीमहोदयेन ‘जय जवान जय किसान’ इति नारेण राष्ट्रं स्वाभिमानेन एकत्वेन च दृढतया स्थितुं मार्गः दर्शितः। सः सार्वजनिकजीवने सादग्यस्य सत्यनिष्ठायाः लग्नतायाः नैतिकतायाः राष्ट्रसमर्पणस्य च अद्भुतं आदर्शं स्थापितवान्, यः अस्माकं सर्वेषां प्रेरणादायी अस्ति। शास्त्री सादग्यप्रतिमूर्तिरेव, तस्य जीवनाचारः अद्यतनपरिप्रेक्ष्येऽपि अत्यधिकं प्रासंगिकः अस्ति।”

मुख्यमन्त्रिणा देहरादूने गांधीपार्के राष्ट्रपितुः गांधीमहात्मनः प्रतिमायां माल्यं समर्प्य भावपूर्णा श्रद्धाञ्जलिः अर्पिता। तस्मिन् अवसरि मुख्यमन्त्रिणा उक्तं—“महात्मा गाँध्याः सत्ये स्थितं जीवनदर्शनं अद्यापि समाजाय नूतनदिशां ददाति। सर्वे जनाः स्वजीवने गाँधीमहात्मनः विचारान् अपनयन्तु” इति।

सः अपि अवदत् यत्“गाँधीमहात्मनः प्रेरणया एव अस्माभिः स्वच्छता, आत्मनिर्भरता, सादग्यं च इति सन्देशः लभ्यते, यः राष्ट्रनिर्माणस्य आधारशिला अस्ति।”

हिन्दुस्थान समाचार