Enter your Email Address to subscribe to our newsletters
भाेपालम्, 2 अक्टूबरमासः (हि.स.)।
राष्ट्रपिता महात्मागान्धिः, भूतपूर्वप्रधानमन्त्री च लालबहादुरशास्त्री इत्येतयोः आज गुरुवासरे जयंती अस्ति। राष्ट्रपितुः महात्मनः गान्धेः जन्म 2 अक्टोबर् 1869 तमे वर्षे अभवत्, भूतपूर्वप्रधानमन्त्रिणः लालबहादुरशास्त्रिणः जन्म तु 2 अक्टोबर् 1904 तमे वर्षे जातः। अस्मिन् अवसरि सर्वं राष्ट्रं तौ महानौ विभूतौ स्मरति। मध्यप्रदेशस्य मुख्यमन्त्री डा॰ मोहनयादवः अपि तयोः पुण्यस्मरणं कृत्वा विनम्रं नमनं कृतवान्।
मुख्यमन्त्री डा॰ यादवः सामाजिकमाध्यमे X इत्यस्मिन् पोस्टं कृत्वा राष्ट्रपितरं महात्मानं गान्धिं स्मरन् उक्तवान् — “पूज्यबापुः, ‘राष्ट्रपिता’ महात्मा गान्धिजी जयंतीदिने मया कोटि-कोटि नमनं कृतम्। सर्वेभ्यः प्रदेशवासिभ्यः ‘अन्तर्राष्ट्रीय-अहिंसा-दिवसस्य’ शुभाशंसाः। अद्य वयं तं युगपुरुषं स्मरामः, यस्य सत्य-अहिंसा-करुणा-मन्त्रेण न केवलं भारतस्य चेतना जागृता, अपि तु सम्पूर्णं विश्वं मानवतायाः नवमार्गं दृष्टवान्। तस्य स्वदेशी-स्वराज-स्वावलम्बन-स्वच्छता-चिन्तनानि अद्यापि प्रेरणापुञ्जाः सन्ति।”
अन्येन सन्देशेन सः भूतपूर्वप्रधानमन्त्रीनं लालबहादुरशास्त्रिणं जयंतीदिने नमस्कृत्य उक्तवान् — “‘जय जवान्–जय किसान्’ इति उद्घोषस्य प्रवर्तकः, महान् राष्ट्रभक्तः, शुचिता-सरलता-दृढता-प्रतिमानः, ‘भारतरत्न’ सम्मानितः भूतपूर्वप्रधानमन्त्री लालबहादुरशास्त्री जी – तस्य जयंतीदिने मया कोटिशः नमनं कृतम्। तेन यानि मूल्य-आदर्शाः स्थापिताः, ते सर्वाः पीढयः देश-समाजयोः सेवायै नित्यम् प्रेरयिष्यन्ति। तस्य कुशलं बुलन्दं नेतृत्वं च एषः देशः सर्वदा स्मरिष्यति।”
वन्दे मातरम्!
---------------
हिन्दुस्थान समाचार