Enter your Email Address to subscribe to our newsletters
जयपुरम्, 2 अक्टूबरमासः (हि.स.)।
राज्यपालः हरिभाऊ तथा मुख्यमन्त्री भजनलालशर्मा गुरुवासरे गान्धी–सर्किलं गत्वा राष्ट्रपितुः महात्मा–गान्धेः जयंतीसमये पुष्पाञ्जलिं अर्प्य तं प्रणम्य अभिवन्दितवन्तौ।
अस्मिन् अवसरे राज्यपालः मुख्यमन्त्री च गान्धेः प्रियभजनानि – “वैष्णवजन तो तेने कहिये”, “रघुपति राघव राजाराम” तथा “रामधुन” इत्येतानि श्रुत्वा बापुं प्रति भावभीनां श्रद्धाञ्जलिं दत्तवन्तौ।
---------------
हिन्दुस्थान समाचार