Enter your Email Address to subscribe to our newsletters
- इंदौर-जबलपुरं समेत्य पञ्चसु संभागेषु वृष्टेः संभावना
भोपालम्, 2 अक्टूबरमासः (हि.स.)।
मध्यप्रदेशस्य बहुषु जिलेषु अद्यापि वर्षाक्रियाः प्रवृत्ताः सन्ति।प्रदेशे 3–4 अक्टूबरतिथिषु प्रबलवृष्टेः अलर्ट् प्रदत्तम् अस्ति। इन्दौर-, जबलपुर-, नर्मदापुरम्-, रीवा-, शहडोल्-संभागानां जिलेषु अस्याः प्रभावः दृश्यः भविष्यति।अर्थात् मानसूनस्य विदायनात् पूर्वम् अपि प्रदेशः पुनः सम्यक् तर्पितः भविष्यति।अद्य गुरुवासरे दशहरादिनेऽपि कतिपयेषु जिलेषु वर्षा सम्भाव्यते।वातावरणविभागस्य अनुशारेण –पश्चिमदेशीयभागे निम्नदाबक्षेत्रम् सक्रियं वर्तते।तत्र एकः ट्रफ् अपि गच्छति।पश्चिमीविक्षोभः (Western Disturbance) 3–4 अक्टूबरतिथिभ्यः प्रभावं दास्यति इति सम्भाव्यते।एतस्मात् कारणात् इन्दौर-, जबलपुर-, नर्मदापुरम्-, रीवा-, शहडोल्-संभागेषु प्रबलवृष्टेः सम्भावना अस्ति।
प्रदेशस्य 12 जिलाभ्यः मानसूनः विदा जातः।ग्वालियर्, श्योपुर्, मुरैना, भिण्ड्, दतिया, शिवपुरी, गुना, आगर-मालवा, नीमच्, मन्दसौर्, रतलाम् अपि एतेषु गणिताः।राजगढ-अशोकनगरयोः कतिपयभागेभ्यः अपि मानसूनः निवृत्तः।
उल्लेखनीयम् –अस्मिन् वर्षे मानसूनः 16 जूनतारिखे प्रदेशे प्रविष्टः।मौसमविभागस्य मते, 6 अक्टूबरतारिखपर्यन्तं प्रदेशस्य सर्वेभ्यः जिलाभ्यः मानसूनः निवर्तते, किन्तु नूतन-तन्त्रस्य निर्माणेन विदायिनः तिथिः परं यावत् अपि प्रसारितुं शक्यते।
एतस्मिन् वर्षे गुना-जिले सर्वाधिकं जलपातं प्राप्तवान्।65.6 इञ्च् वर्षा लेखिता।मण्डला-रायसेनयोः 62 इञ्चाधिकं, श्योपुर-अशोकनगरयोः 56 इञ्चाधिकं जलपातः जातः।
शाजापुर्, खरगोन्, खण्डवा, बडवानी, धार इत्येते न्यूनतमवृष्टि-प्राप्त शीर्ष-5 जिलाः सन्ति।शाजापुरे 28.9 इञ्च्खरगोन्यां 29.6 इञ्च्खण्डवायां 32 इञ्च्बडवानीयां 33.5 इञ्च्धारे 33.6 इञ्च् वर्षा प्राप्ता।
---
हिन्दुस्थान समाचार