मध्यप्रदेशः- सर्वेषु ग्राम पंचायतेषु अद्य भविष्यति विशिष्टा ग्रामसभा
- भावांतर योजनायाः प्रावधानानां लाभविषये कृषकेभ्योऽददात् सूचनाम् भोपालम्, 02 अक्टूबरमासः (हि.स.)।मध्यप्रदेशे अद्य गुरुवासरे सर्वासु ग्रामपञ्चायतीषु विशेषग्रामसभाः आयोजनं करिष्यन्ति।एषु ग्रामसभासु कृषकानां कृते मुख्यमन्त्रिणः डॉ. मोहन यादवस्य पहलया
मुख्य सचिव की अध्यक्षता में हुई बैठक


- भावांतर योजनायाः प्रावधानानां लाभविषये कृषकेभ्योऽददात् सूचनाम्

भोपालम्, 02 अक्टूबरमासः (हि.स.)।मध्यप्रदेशे अद्य गुरुवासरे सर्वासु ग्रामपञ्चायतीषु विशेषग्रामसभाः आयोजनं करिष्यन्ति।एषु ग्रामसभासु कृषकानां कृते मुख्यमन्त्रिणः डॉ. मोहन यादवस्य पहलया आरब्धा भावान्तरयोजना इत्यस्य प्रावधानाः लाभाश्च विवक्षिताः भविष्यन्ति। सह दशहरामिलनसमारोहाः अपि एषु ग्रामसभासु भविष्यन्ति। वनाधिकारअधिनियमस्य अपि सूचना प्रदास्यते। आदि कर्मयोगी अभियानस्य विषये अपि निवेदनं भविष्यति।जनसम्पर्काधिकारी महिपाल अजय उक्तवान् यत् ग्रामसभायां विभिन्नविषयेषु चर्चा भविष्यति।

कृषकानां श्रमस्य यथोचितं मूल्यं सम्मानं च दातुं मध्यप्रदेशसरकारस्य प्रथमा प्राथमिकता अस्ति। एतस्मात् उद्देशात् वर्षे 2025 नूतना भावान्तरभुगतानयोजना कार्यान्विता जाता। अस्यां भारतसर्कारेण घोषितं सोयाबीनस्य न्यूनतमसमर्थनमूल्यं (MSP) तथा राज्ये मण्डी-मॉडलभावः/विक्रयमूल्यं च, एतयोः अन्तरं कृषकेभ्यः प्रदास्यते।

योजना एवमेव कार्यं करिष्यति –कृषकेण ई-उपार्जनपोर्टल् मध्ये पञ्जीकरणं अनिवार्यं भविष्यति।कृषकाः पूर्ववत् स्वोप्तिं मण्डीषु विक्रीष्यन्ते।न्यूनतमसमर्थनमूल्यं तथा मण्डी-मॉडलभावस्य अन्तरराशिः कृषकस्य DBT द्वारा भुगतानं भविष्यति।उचितौसतगुणवत्ता (FAQ) उपजायां न्यूनतमसमर्थनमूल्यस्य अनुबंधो भविष्यति।

पञ्जीकरणं 3 अक्टूबर 2025 तः आरभ्य भविष्यति।पञ्जीकरणं 17 अक्टूबर 2025 यावत् कर्तुं शक्यते।कृषकाः स्वपञ्जीकरणं कुर्वन्तु –सोसाइटी-स्तरीये पञ्जीकरणकेन्द्रे ग्राहकसेवाकेन्द्रे / MP Online kiosk / MP किसान-app मध्ये च।

योजना कदा प्रभावी भविष्यति –

कृषकाः एतस्य योजनायाः लाभं लब्धुं 24 अक्टूबर 2025 तः 15 जनवरी 2026 पर्यन्तं मण्डीषु स्वफलं विक्रीतुं शक्नुवन्ति।

लाभाः –

यदि विक्रयमूल्यं MSP तः न्यूनं, किन्तु मण्डी-मॉडलभावतः अधिकं स्यात्, तर्हि विक्रयमूल्यं तथा MSP इत्ययोः अन्तरराशिः कृषकेभ्यः दास्यते।उदाहरणम् – MSP = ₹5328, सोयाबीन-मॉडलभावः = ₹4600, कृषकविक्रयमूल्यं = ₹4800 → अन्तरराशिः = ₹428, एषा राज्यसर्कारेण दास्यते।

यदि विक्रयमूल्यं MSP तथा मॉडलभावयोः उभयोः अपि न्यूनं स्यात्, तर्हि MSP तथा मॉडलभावयोः अन्तरं कृषकाय दास्यते।उदाहरणम् – MSP = ₹5328, मॉडलभावः = ₹4600, कृषकविक्रयमूल्यं = ₹4500 → अन्तरराशिः = ₹728, एषा भावान्तरराशिः राज्यसर्कारेण प्रदास्यते।

15 दिनेषु एव भावान्तरराशिः कृषकस्य आधार-लिंकबैंकखाते शीघ्रं अन्तरणं भविष्यति।गतद्विसप्ताहेषु विक्रीतस्य सोयाबीनस्य औसत-विक्रयमूल्यं प्रतिदिनं निश्चितं भविष्यति।

हिन्दुस्थान समाचार