सांसदखेलमहोत्सवः- २०२५ इत्यस्य आयोजनं १३ तः १६ अक्टूबरपर्यन्तं भविष्यति
बलौदाबाजारः, 2 अक्‍ टूबरमासः (हि.स.)। सांसदक्रीडामहोत्सवः २०२५ अन्तर्गतं जांजगीर–चाम्पा संसदीयराज्यक्षेत्रे पलारी, कसडोल तथा लवन–सोनाखानप्रदेशे संकुलस्तरीयः विकासखण्डस्तरीयश्च क्रीडास्पर्धाः १३ तः १६ अक्टूबरपर्यन्तं भविष्यन्ति। सांसदक्रीडामहोत्सवस्य
सांसद कमलेश जांगड़े वीडियो कॉन्फ्रेंसिंग में माध्यम से समीक्षा बैठक लेती हुई


बलौदाबाजारः, 2 अक्‍ टूबरमासः (हि.स.)। सांसदक्रीडामहोत्सवः २०२५ अन्तर्गतं जांजगीर–चाम्पा संसदीयराज्यक्षेत्रे पलारी, कसडोल तथा लवन–सोनाखानप्रदेशे संकुलस्तरीयः विकासखण्डस्तरीयश्च क्रीडास्पर्धाः १३ तः १६ अक्टूबरपर्यन्तं भविष्यन्ति। सांसदक्रीडामहोत्सवस्य आयोजनसंबन्धिनीं गुरुवासरे जांजगीर–चाम्पा सांसदः कमलेश जाङ्गडे इत्याख्यः अधिकारिभिः सह वीडियो–सम्मेलनमार्गेण सभां कृत्वा श्रेष्ठमायोजनं युवानां च अधिकाधिकसंख्यायाम् अभिलेखनं करणीयमिति आवश्यकनिर्देशान् दत्तवान्।

जांजगीर–चाम्पा लोकसभाक्षेत्रे यत् क्षेत्रं प्रवर्तते, तत्र क्रीडामहोत्सवाय अधिकारीणां दायित्वं विन्यस्तं समितिश्च निर्मिता इति कलेक्टरः दीपकसोनी नामकः निवेदितवान्। सः सम्बन्धितक्षेत्रेषु उच्चतरविद्यालय–महाविद्यालयीयान् छात्रछात्रिकाः अभिलेखयितुं जिलाशिक्षाधिकारीं निर्दिष्टवान्। ग्रामपञ्चायतभ्यः अपि युवानः समूहगता महिलाश्च जीविकाविद्यालयीयैः सह शतप्रतिशतं पंजीकरणं करोतु इति उक्तवान्।

सांसदक्रीडामहोत्सवे पुरुष–महिलाविभागयोः, ९ तः १९ वर्षपर्यन्तं, तदधिकवयः वर्गे च प्रतिभागिनः भागं ग्रहीतुं शक्नुवन्ति। तत्र खो–खो, मल्लयुद्धं, बालीबॉल, भारोत्तोलनम्, प्लवनम्, शरीरसौष्ठवम्, चतुरङ्गः, फुगडी, कबड्डी, गेड़ी–धावनम्, रज्जुकर्षणम्, रज्जुक्रीडनं च इत्यादिषु स्पर्धाः भविष्यन्ति। एताः संकुलस्तरीया विकासखण्डस्तरीया च जिलास्तरीया च स्पर्धाः आयोजिताः भविष्यन्ति।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता