Enter your Email Address to subscribe to our newsletters
वाराणसी, 02 अक्टूबरमासः (हि.स.)। भारतीयशास्त्रीयसङ्गीतस्य महान् गायकः, पद्मविभूषणसम्मानितः पण्डितः छन्नूलालमिश्रः गुरुवासरे प्रातःकाले निधनं गतवान्। तेन मीरजापुरस्थिते रामकृष्णसेवामिशनचिकित्सालये प्रातः ४ः१५ वादने अन्तिमश्वासः गृहीतः। तस्य निधनात् वाराणसीसहितं समग्रदेशे शोकतरङ्गः प्रसरितः।
पण्डितः छन्नूलालमिश्रः दीर्घकालं यावत् अस्वस्थः आसीत्। त्रीणि सप्ताहानि पूर्वं तस्मै लघुहृदयाघातः अभवत्, ततः पश्चात् तं वाराणस्यां स्थिते काशीहिन्दुविश्वविद्यालयस्य (बीएचयू) सरसुन्दरलालचिकित्सालये भर्ती कृतवन्तः। परीक्षणे तस्य वक्षःस्थले संक्रमणं रक्तक्षयश्च प्रकटितः। चिकित्सायाः अनन्तरं यदा स्थितौ किञ्चित् सुधारः जातः तदा तम् मीरजापुरस्थितं रामकृष्णसेवामिशनचिकित्सालयं प्रति स्थानान्तरितवन्तः। तस्य स्वजनानाम् अनुसारं तस्य अन्त्यसंस्कारः वाराणस्यामेव भविष्यति।
पण्डितः छन्नूलालमिश्रः ३ अगस्त् १९३६ तमे वर्षे उत्तरप्रदेशस्य आजमगढजनपदस्य हरिहरपुग्रामे जातः। बाल्यकालात् एव तस्य सङ्गीते गाढा अनुरागः आसीत्। प्रारम्भिकशिक्षानन्तरं तेन किराणाघरणीय उस्ताद् अब्दुल्घनीखानतः गानस्य विधिवत् शिक्षा प्राप्ता। सः खयालपूर्वीठुमरीशैल्योः अप्रतिमगायकः इति मत्यते। ठुमरी, दादरा, कजरी, चैती इत्यादीनि उपशास्त्रीयसङ्गीतानि देशविदेशयोः प्रसारितवान्। तस्य गायनकले वाराणस्याः मधुरता सहजता च स्फुटं दृश्यते।
पण्डितः छन्नूलालमिश्रः २०१० तमे वर्षे पद्मभूषणेन, २०२० तमे वर्षे पद्मविभूषणेन् च सम्मानितः अभवत्। तस्मै सुरसिङ्गारसंसद्बॉम्बे इत्यस्य 'शिरोमणिपुरस्कारः', उत्तरप्रदेशसङ्गीतनाट्याकादमीपुरस्कारः, बिहारसङ्गीतशिरोमणिः च अन्ये च बहवः प्रतिष्ठिताः सम्मानाः प्राप्ताः।
पण्डितस्य निधनसमये सङ्गीतप्रेमिणां मध्ये शोकतरङ्गः व्यापितः। सङ्गीतप्रेमिणः सोशलमीडियायाम् लिखितवन्तः — “पण्डितः छन्नूलालमिश्रस्य गमनं भारतीयशास्त्रीयसङ्गीतस्य एका युगस्य समाप्तिः अस्ति। सः केवलं कलाकारः न, अपितु भारतीयसांस्कृतिकपरम्परायाः जीवद्योतकः आसीत्। तस्य सुरीला स्वरः अधुना केवलं ध्वनिमुद्रिकासु एव श्रोतुं शक्यते, किन्तु तेन सञ्चितः सङ्गीतजगत् आगामिनीः पीढीः प्रेरयिष्यति।”
----
हिन्दुस्थान समाचार / अंशु गुप्ता