गांधिने शास्त्रिणे च अर्पिता भावपूर्ण श्रद्धांजलिः, आदर्शेषु चलितेषु संकल्पः
देहरादूनम्, 2 अक्टूबरमासः (हि.स.)।राष्ट्रपिता महात्मागान्धी पूर्वप्रधानमन्त्री च लालबहादुरशास्त्री इत्येतयोः जयन्त्यां गुरुवासरे प्रदेशे सर्वत्र विविधकार्यक्रमाः आयोज्य उभयोः प्रति श्रद्धाञ्जलिः अर्पिता। शासकीयसर्वेषु कार्यालयेषु शैक्षिकसंस्थानेषु च
श्रद्धासुमन अर्पित करते सैनिक कल्याण मंत्री गणेश जाेशी।


देहरादूनम्, 2 अक्टूबरमासः (हि.स.)।राष्ट्रपिता महात्मागान्धी पूर्वप्रधानमन्त्री च लालबहादुरशास्त्री इत्येतयोः जयन्त्यां गुरुवासरे प्रदेशे सर्वत्र विविधकार्यक्रमाः आयोज्य उभयोः प्रति श्रद्धाञ्जलिः अर्पिता। शासकीयसर्वेषु कार्यालयेषु शैक्षिकसंस्थानेषु च अपि परमानन्देन कार्यक्रमाः आयोजिताः। सैनिककल्याणमन्त्री गणेशजोशी गान्धी-शास्त्रीजयन्त्यां “स्वच्छभारतं, स्वस्थभारतं” इत्यस्य संकल्पं प्रवर्धयन् डोभालवालाक्षेत्रे व्यापकं स्वच्छताअभियानं प्रारब्धवान्। अस्मिन् अभियाने भाजपा-पक्षस्य कार्यकर्तारः अपि बहुसंख्येन उपस्थिताः। मन्त्री स्वयम् एव झाडुं गृहीत्वा स्वच्छतायाः सन्देशं दत्त्वा जनान् प्रति आह्वानं कृतवान् यत् स्वच्छतां केवलं दिवसविशेषस्य कार्यक्रमं न मन्यन्ताम्, अपितु ताम् एव जीवनशैलीस्य अङ्गं करोतु। अवदत् च – “स्वच्छता केवलं सर्वकारस्य उत्तरदायित्वं नास्ति, अपि तु समाजस्य प्रत्येकनागरिकस्य धर्मः अस्ति यत् सः स्वगृहं, मोहल्लं, नगरं च स्वच्छं रक्षतु। स्वच्छं पर्यावरणं एव स्वस्थसमाजस्य सशक्तराष्ट्रस्य च आधारः भवति।”

अन्यस्मिन् कार्यक्रमे मुख्यसचिवः आनन्दबर्द्धनः सचिवालये राष्ट्रपितुः महात्मगान्धेः पूर्वप्रधानमन्त्रिणः च स्व. लालबहादुरशास्त्रिणः चित्रयोः समक्षं माल्यार्पणं कृत्वा तयोः भावपूर्णं स्मरणं कृतवान्। सचिवालयस्य अन्ये उच्चाधिकारिणः अपि गान्धी-शास्त्र्योः चित्रेषु माल्यार्पणं कृत्वा श्रद्धाञ्जलिं दत्तवन्तः। मुख्यसचिवेन सचिवालयपरिसरे उपस्थितान् सर्वानधिकारीन् कर्मचारिणश्च “स्वच्छतैव सेवा” इति शपथं अपि प्रदत्तम्।

पुलिसमहानिदेशकः सर्वानधिकारीन् कर्मचारिणश्च गान्धी-शास्त्र्योः आदर्शान् जीवनमूल्यानि च आत्मसात् कृत्वा समाजे समानतां, साम्प्रदायिकसौहार्दं, प्रेम च वर्धयितुं सुदृढं समृद्धं राष्ट्रं निर्मातुं च स्वं योगदानं दातुं प्रेरितवान्। पुलिसमहानिदेशकः दीपं सेठ महोदयः अस्मिन् अवसरि सर्वानधिकारीन् कर्मचारिणश्च विजयदशमीपर्वणः शुभकामनाः अपि दत्तवान्।

जनपददेहरादूनस्य सर्वेषु थानेषु, चौक्याः, कार्यालयेषु, पुलिसलाइनमध्ये च गान्धी-शास्त्र्योः चित्रेषु माल्यार्पणं कृत्वा ताभ्यां श्रद्धाञ्जलिः अर्पिता। अस्मिन् अवसरे वरिष्ठपुलिसअधिक्षकः देहरादूनस्य पुलिसलाइनमध्ये उभयोः पुण्यात्मनोः चित्रयोः माल्यार्पणं कृत्वा तयोः प्रति श्रद्धाञ्जलिं दत्तवान्। वरिष्ठपुलिसअधिक्षकेण राष्ट्रपितुः महात्मगान्धेः लालबहादुरशास्त्रिणः च जीवनमूल्यानि विषये उपस्थितानधिकारीन् कर्मचारिणश्च उपदिष्टं यत् तेभ्यः प्रेरणां गृह्णीयुः।

हिन्दुस्थान समाचार