संघस्य ज्योतिः पूर्णं राष्ट्रम् आलोकयति : केशवप्रसादमौर्यः
--राष्ट्रिय स्वयंसेवक संघः-राष्ट्रवादस्य एकेन विराट संकल्पेन एकस्याः शताब्द्याः अखंड साधनां यावत्! लखनऊ, 02 अक्टूबरमासः (हि.स.)।भारतीयजनतापक्षस्य वरिष्ठनेता उत्तरप्रदेशराज्यस्य उपमुख्यमन्त्री च केशवप्रसादमौर्य इत्यनेन उक्तं यद् “अद्यारभ्य सम्यक्
केशव प्रसाद मौर्य


--राष्ट्रिय स्वयंसेवक संघः-राष्ट्रवादस्य एकेन विराट संकल्पेन एकस्याः शताब्द्याः अखंड साधनां यावत्!

लखनऊ, 02 अक्टूबरमासः (हि.स.)।भारतीयजनतापक्षस्य वरिष्ठनेता उत्तरप्रदेशराज्यस्य उपमुख्यमन्त्री च केशवप्रसादमौर्य इत्यनेन उक्तं यद् “अद्यारभ्य सम्यक् शतं वर्षाणि पूर्वं 1925 तमे वर्षे नागपुरे प्रज्वलिता संघस्य ज्योतिः अद्य अखण्डप्रकाशरूपेण केवलं सम्पूर्णं राष्ट्रं न आलोकयति, अपि तु समग्रस्य जगतः अपि ध्यानं आकर्षयति।”

केशवप्रसादमौर्यः स्वस्य सामाजिकसञ्जालखाते लिखितवान्—“समाजस्य अन्तिमपायदानस्थस्य जनस्य सेवा, सेवायाः फलरूपेण समरसता, समरसतायाः परिणामरूपेण राष्ट्रनिर्माणम्—एव एतेषां शतवर्षपर्यन्तं सञ्चालितानां अनुशासितसाधनानां मूलम्। अहं स्वयं स्वयंसेवकरूपेण दृढतया उक्तुं शक्नोमि यत् राष्ट्रीयः स्वयंसेवकसंघः सः महायज्ञः अस्ति, यस्मिन् कोटयोः स्वयंसेवकाः स्वजीवनं अर्प्य राष्ट्राय अनवरतं नूतनचेतनां नूतनदिशां च दत्तवन्तः।उपमुख्यमन्त्री अवदत्—“सीमायां संकटः भवतु, आपद् भवतु, अकालः, बाढः, महामारी वा—प्रत्येककाले स्वयंसेवकानां अनवरतसेवा एव आशायाः दीपः अभवत्। श्रीरामजन्मभूम्याः आन्दोलनस्य माध्यमेन सांस्कृतिकपुनर्जागरणस्य उद्घोषः अभवत्, स्वदेशीजागरणमञ्चस्य संकल्पेन आत्मनिर्भरभारतस्य मार्गः प्रशस्तः अभवत्। राष्ट्रीयः स्वयंसेवकसंघः व्यक्तिम् न तु केवलं निर्मितवान्, अपि तु व्यक्तित्वानि गढितवान्। अद्य संघस्य अस्य पावनपरम्परायाः उज्ज्वलः प्रतीकः प्रधानः मन्त्री नरेन्द्रमोदी अस्ति, यः भारतस्य सांस्कृतिकं आर्थिकं च अस्मितां वैश्विकपटल उपरि नूतनं गौरवं दातुं महत्कार्यं करोति।”

केशवप्रसादमौर्यः लिखितवान्—“एतत् वक्तुं मम काचित् अतिशयोक्तिः नास्ति यत् राष्ट्रीयः स्वयंसेवकसंघः भारतवर्षस्य भविष्यस्य दीपस्तम्भः अस्ति। एषा संस्कारयात्रा, राष्ट्रनिष्ठायाः साधना, मातृभारत्याः प्रति अटूटसमर्पणस्य अमरा गाथा च अस्ति। विश्वस्य सर्वाति महत्सु असर्वकारीस्वयंसेवीसंघटनानामध्ये अस्य एकस्य शताब्दीक्षणस्य अमूल्यस्य साक्षी भवितुं मम इव स्वयंसेवकस्य कृते गर्वः, भावुकता च विशेषसुअवसरः अस्ति।”

“समस्तेभ्यः स्वयंसेवकेभ्यः राष्ट्रीयस्वयंसेवकसंघस्य शताब्दीवर्षस्य हार्दिकाः बधाईः शुभाशंसाः च।”

हिन्दुस्थान समाचार