आरएसएस समाजस्य प्रत्येकस्मिन् क्षेत्रे सेवा, समरसता संगठन इत्येषां भावो जागरितः - योगी आदित्यनाथः
लखनऊ, 02 अक्टूबरमासः (हि.स.)।उत्तरप्रदेशस्य मुख्यमन्त्री योगिना आदित्यनाथेन राष्ट्रीयस्वयंसेवकसंघस्य स्थापने शतवर्षपूर्तेः अवसरं प्रति सर्वेभ्यः स्वयंसेवकेभ्यः हार्दिकाः शुभाशंसाः दत्ताः। मुख्यमन्त्रिणा स्वस्य सामाजिकसञ्जालखाते ‘एक्स्’ इत्यस्मिन् लिख
योगी आदित्यनाथ


लखनऊ, 02 अक्टूबरमासः (हि.स.)।उत्तरप्रदेशस्य मुख्यमन्त्री योगिना आदित्यनाथेन राष्ट्रीयस्वयंसेवकसंघस्य स्थापने शतवर्षपूर्तेः अवसरं प्रति सर्वेभ्यः स्वयंसेवकेभ्यः हार्दिकाः शुभाशंसाः दत्ताः। मुख्यमन्त्रिणा स्वस्य सामाजिकसञ्जालखाते ‘एक्स्’ इत्यस्मिन् लिखितम्—

“मातृभारत्याः सेवा, राष्ट्रीयैक्यं, सनातनसंस्कृतेः संवर्धनं च समर्पितः विश्वस्य सर्वातिविशालः सांस्कृतिकः संगठनः राष्ट्रीयः स्वयंसेवकसंघः, तस्य शतकीययात्रा राष्ट्रचेतनायाः पुनर्जागरणस्य अमरः अध्यायः अस्ति। संघेन शाखायाः अनुशासितपङ्क्तौ राष्ट्रप्रेमस्य संस्काराः रोपिताः, समाजस्य प्रत्येकक्षेत्रे सेवा–समरसता–संगठनभावः च जागृतः।”

मुख्यमन्त्री लिखितवान्—“भारतस्य आत्मनः आत्मविश्वासः प्रदत्तः, विकीर्णः समाजः एकात्मतासूत्रे पिरितः, राष्ट्रवादः जीवनस्य आधारः कृतः, अखण्डभारतस्य निर्माणस्य दिव्यसंकल्पेन जनजनं संयोजितम्। ‘राष्ट्रः प्रथमः’ इति भावनया दीप्तम् एतत् संगठनं कोटि-कोटिभ्यः भारतीयेभ्यः प्रेरणायाः स्रोतः अस्ति। राष्ट्रीयस्वयंसेवकसंघस्य शाखा चरित्रनिर्माणस्य कार्यशाला अस्ति। अत्र अनुशासनस्य सहयोगस्य च पाठः शिक्ष्यते। अत्र सेवा–समर्पणयोः बीजानि अपि रोप्यन्ते।”

मुख्यमन्त्री प्रदेशवासिनः विजयादशम्याः अपि शुभकामनाः दत्वा लिखितवान्—“प्रभोः श्रीरामस्य कृपया प्रत्येकं हृदयम् धर्मस्य सत्यस्य च आलोकात् परिपूर्णं भवेत्।”

हिन्दुस्थान समाचार