राज्यस्तरीयः वन्यजीवसप्ताहः – २०२५ - वनविहारप्रदेशे अद्य भविष्यन्ति विभिन्नाः कार्यक्रमाः
भोपालम्, 2 अक्टूबरमासः (हि.स.)। मध्यप्रदेशस्य राजधानी भोपालस्थिते राष्ट्रीयोद्यानवनविहारे १ अक्टूबरतः आरब्धे राज्यस्तरीये वन्यजीवसप्ताहे–२०२५ अन्तर्गतं वन्यजीवसंरक्षणविषये आधारिताः विभिन्नाः कार्यक्रमाः आयोजिताः भविष्यन्ति। वनविहारस्य संचालिका पद्मप
राष्ट्रीय उद्यान वन विहार


भोपालम्, 2 अक्टूबरमासः (हि.स.)। मध्यप्रदेशस्य राजधानी भोपालस्थिते राष्ट्रीयोद्यानवनविहारे १ अक्टूबरतः आरब्धे राज्यस्तरीये वन्यजीवसप्ताहे–२०२५ अन्तर्गतं वन्यजीवसंरक्षणविषये आधारिताः विभिन्नाः कार्यक्रमाः आयोजिताः भविष्यन्ति।

वनविहारस्य संचालिका पद्मप्रिया बालकृष्णन इत्यनेन सूचितं यत् अद्य गुरुवासरे प्रातः षट् वादनात् अष्टादशाधिकाष्टवादनपर्यन्तं पक्ष्यवलोकनशिविरस्य आयोजनं कृतम्। ततः प्रातः दशवादनात् षष्ठी–अष्टमी कक्षायाः विद्यालयीनछात्रछात्राणां कृते जनजागरूकतायै सृजनात्मककार्यशालायाः आयोजनं, तृतीय–पञ्चमीकक्षायाः कृते पत्रकला–कृतिः, नवमी–द्वादशीकक्षायाः कृते शिलापत्रभारचित्रणम् अपि भविष्यति।

एवमेव प्रातः दशवादनार्धे महाविद्यालयीनविद्यार्थिनः कृते “शहरीकरणं च वन्यजीवानां सहअस्तित्वं सम्भवम्” इति विषये वादविवादप्रतियोगिता च, अपराह्णे द्वादशवादनार्धे षष्ठी–द्वादशीकक्षायाः विद्यार्थिनः कृते तात्कालिककथाप्रतियोगिता च आयोजिता भविष्यति।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता