कर्नाटकस्य मुख्यमंत्री विश्वविख्यातं मैसूरदशहरा जंबूसवारी कार्यक्रमं शुभारम्भितवान्
मैसूरः, 2 अक्टूबरमासः (हि.स.)। कर्नाटकस्य मुख्यमंत्री श्री सिद्धारमैया गुरुवासरे सायंकाले शुभमूहूर्ते चामुंडेश्वरी मूर्तौ पुष्पांजलिं अर्पयित्वा विश्वविख्यातं मैसूरदशहरा जंबूसवारी कार्यक्रमं शुभारम्भितवान्। दशहरा शोभयात्रायाम् अभिमन्युनामकहस्ती उपरि
Savari..


Jumbu savari


मैसूरः, 2 अक्टूबरमासः (हि.स.)। कर्नाटकस्य मुख्यमंत्री श्री सिद्धारमैया गुरुवासरे सायंकाले शुभमूहूर्ते चामुंडेश्वरी मूर्तौ पुष्पांजलिं अर्पयित्वा विश्वविख्यातं मैसूरदशहरा जंबूसवारी कार्यक्रमं शुभारम्भितवान्। दशहरा शोभयात्रायाम् अभिमन्युनामकहस्ती उपरि ७५० किलोग्राम सुवर्णयुक्ते आभरणैः सज्जिते अंबारीमध्ये देवी चामुंडी विराजमानास्ति। महोत्सवे बहूनां जनानां नियंत्रयितुं आरक्षकैः व्यापकव्यवस्था कृता।

अद्य सायं ४.४२ तः ५.०६ पर्यन्तम् शुभकुंभलग्ने मुख्यमंत्री सिद्धारमैया दशहरा मेलानां शोभायात्रारम्भं कृतवान्। तस्मिन्नेव समये तेन सह उपमुख्यमंत्री डी.के. शिवकुमारः, जनपद लप्रभारीमन्त्री डॉ. एच.सी. महादेवप्पा, सांसदः यदुवीर कृष्णदत्त चामराज वोडेयारः, कन्नड़-संस्कृति विभागमन्त्री शिवराज तंगडगी, जनपदकलेक्टरः जी. लक्ष्मीकांत रेड्डी, पुलिस आयुक्तः सीमालटकर इत्यादयः उपस्थिताः। ते अम्बा विलास पैलेससमिपे चामुंडेश्वरी मूर्तौ पुष्पांजलिं अर्प्य जंबूसवारी आरभते स्म।

दशहरा शोभायात्रायाम् अभिमन्यु हस्ती उपरि सुवर्णसज्जिते ७५० किलोग्राम अंबारीमध्ये देवी चामुंडी विराजमानास्ति। जंबूसवारी कार्यक्रमे ५७ कलामंडलिनां झांक्यः सम्मिलिताः। शोभायात्रा मार्गे १४० तः अधिकाः कलामंडलयः संलग्नाः। जुलूसः उत्तरीद्वारात् आरभ्य केआर सर्किलम्, सय्याजी राव रोडम्, सरकारी आयुर्वेद सर्किलम्, बाँस बाजारम्, हाईवे सर्किलम् इत्यादीनि मार्गाणि प्रेष्य बन्नीमंतप् पंजीम् परेड ग्राउण्ड् प्रतिगच्छति।

जुलूसे धनञ्जय, कावेरी, रूपा, कुम्की, गोपी नौफट, श्रीकांत, लक्ष्मी, महेन्द्र, भीम, कंजन, एकलव्य, प्रशान्त, सुग्रीव, हेमावती इत्यादयः हस्तयः अपि सम्मिलिताः। तस्य अतिरिक्तं, नृत्य-संगीत कार्यक्रमाः आकर्षणं वर्धयन्ति। अंबारीमध्ये विराजमानां देवी चामुंड्याः दर्शनाय महलस्य प्रांगणे ४८ सहस्रजनानाम् उपवेशनस्य व्यवस्था कृताः।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता