गान्धीजयन्ती-अवसरे मनोहरलालेन रूसदूतावासस्य प्रदर्शनी उद्घाटिता
नवदेहली, 2 अक्टूबरमासः (हि.स.)। केंद्रीयगृह–नगरीयविकासमन्त्री मनोहरलालेन गान्धेः १५६तमजन्मजयन्त्यवसरे रूसीदूतावासस्य तत्वावधानमध्ये आयोजितं प्रदर्शनीकार्यक्रमं उद्घाटितम्। अस्य प्रदर्शिन्याः विषयः गान्धी–टॉलस्टॉय आसीत्। आवास–नगरीयविकासमन्त्रालयस्य अ
केंद्रीय मंत्री मनोहर लाल ने रूस दूतावास द्वारा महात्मा गांधी की 156वीं जयंती पर आयोजित प्रदर्शनी का किया उद्घाटन


नवदेहली, 2 अक्टूबरमासः (हि.स.)। केंद्रीयगृह–नगरीयविकासमन्त्री मनोहरलालेन गान्धेः १५६तमजन्मजयन्त्यवसरे रूसीदूतावासस्य तत्वावधानमध्ये आयोजितं प्रदर्शनीकार्यक्रमं उद्घाटितम्। अस्य प्रदर्शिन्याः विषयः गान्धी–टॉलस्टॉय आसीत्।

आवास–नगरीयविकासमन्त्रालयस्य अधिकृतसामाजिकमाध्यमे ‘एक्स’ इत्यस्मिन् निवेदितम् यत् अस्याः प्रदर्शिन्याः उद्देश्यः गान्धेः टॉलस्टॉयस्य च विचारान् तयोः च योगदानं प्रदर्शयितुम् अस्ति।

अस्मिन् अवसरे राज्यमन्त्रीतोखनसाहू, रूसीराजदूतः महामहिम डेनिस एलीपोव च, आवासनगरीयविकासमन्त्रालयस्य वरिष्ठाधिकारीणश्च उपस्थिताः आसन्।

-------------

हिन्दुस्थान समाचार / अंशु गुप्ता